वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 297, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु स्वविषये दण्डः । ३०१ पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये चाप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु । शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥ पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशंसने । शूद्रे चैवार्द्धपञ्चाशत्तथा धर्मो न हीयते ॥ वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तमसाहसम् । शूद्राक्रोशे तथा वैश्यः शतार्द्धं दण्डमर्हति ॥ सवर्णाक्रोशने दण्डस्तथा द्वादशिकः स्मृतः । द्वादशिकः, द्वादशपणात्मकः । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ एकजातिर्द्विजातिं तु वाचा दारुणा क्षिपेत् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ एकजातिः, शूद्रः, उपनयनकृतद्वितीयजातेरभावात् । नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वताम् । निखेयोऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥ अयोमयः, लोहमयः । धर्मोपदेशं धर्मेण द्विजानामस्य कुर्वतः । तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ श्रुतं देशं च जातिं च कर्म शारीरमेव च । वितथं तु ब्रुवन्दाप्यो राज्ञा द्विगुणसाहसम् ॥ यस्तु पातकसंयुक्तैः क्षिपेद्वर्णांन्तगोचरैः । उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम् ॥ राज्ञे निवेद्य नियमं प्रशमं यान्ति ये मिथः । सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु ॥