वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 298, कुल 490 में से
संदर्भ में पढ़ेंप्रीत्या मयास्याभिहितं प्रमादेनाथ वा वदेत् । भूयो न चैवं वक्ष्यामि स तु दण्डार्धभाग्भवेत् ॥ काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥ मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम् । आक्षारयन् शतं दण्ड्यः पन्थानं चाददद्गुरोः ॥ गुरुवर्जं तु मार्गे हि यो मार्गं न प्रयच्छति । स दाप्यः कृष्णलं राज्ञा तस्य पापस्य शान्तये ॥ एकजातिर्द्विजातिं तु येनाङ्गेनापराध्नुयात् । तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥ अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः । अवमेहयतो मेढ्रमवमर्द्दयतो गुदम् ॥ सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । कट्यां कृताङ्को निर्वास्योऽङ्गमेकं चास्य कर्त्तयेत् ॥ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्घाटिकायां तु ग्रीवायां वृषणेषु च ॥ त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । अस्थिभेत्ता च षण्निष्कान् प्रमाप्यश्च प्रमापकः ॥ अङ्गभङ्गकरस्याङ्गं तदेवापहरेन्नृपः । दण्डपारुष्यकृद्दद्यात्समुत्थानव्ययं तथा ॥ अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः । पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः ॥ पञ्चाशत्तु भवेद्दण्ड्यस्तथैव मृगपक्षिषु । कृमिकीटेषु दण्ड्यः स्याद्रजतस्य तु माषकम् ॥ तस्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा । सस्वामिकानां सकरं शेषाणां दण्डमेव तु ॥