वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 301, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु माया । ३०५ विष्णुधर्मोत्तरे, पुष्कर उवाच । उत्पातैर्विविधैः कार्यं परस्योद्वेजनं नृपैः । अरातिशिबिरस्थाने वसतिर्यस्य पक्षिणः ॥ स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज । विसृज्यैनं ततस्तीव्रमुलकापातं प्रदर्शयेत् । अनेनैवानुसारेण बुद्ध्या निश्चित्य यत्नतः ॥ उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः । उद्वेजनं तथा कुर्यात्कुहकैर्विविधैर्द्विषाम् ॥ सांवत्सरा नवर्ष च नाशं ब्रूयुः परस्य च । जिगीषुः पृथिवीराज्यं तेन चोद्वेजयेत्परान् ॥ सांवत्सराः, ज्योतिर्विदः । नवर्षे, वृष्ट्यभावम् । देवतानां प्रसादानि कीर्तनीयानि तस्य तु ॥ सुस्वप्नलाभांश्च तथा जिगीषुं प्रति कीर्तयेत् । दुःस्वप्नलाभं च तथा परेषामिति निश्चयः ॥ आगतं नो मित्रबलं प्रहरध्वमभीतवत् । एवं ब्रूयाद्रणे प्राप्ते भग्ना भग्नाः परे इति ॥ क्ष्वेडाकिलकिलाशब्दमस्य शत्रुर्हतस्तथा । देवाज्ञाबृंहितो राजा सन्नद्धः समरं प्रति ॥ एवम्प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः । मायाहतः शत्रुरथ प्रशक्यः सङ्ख्ये सुखं हन्तुमदीनसत्त्वः॥इति। इति माया । अथेन्द्रजालम् । तच्च मन्त्रतन्त्रादिना अन्यथास्थितस्यार्थस्यान्यथावभासः । ३९