भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 300, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 300

३०४ वीरमित्रोदयस्य राजनीतिप्रकाशे नादिकम् । आदिपदेन सामदानयोरुपादानम् । एवमादीनि कार्याणि परचक्रे महीक्षिता । स्वराष्ट्रे च द्विजश्रेष्ठ दूष्याणां बलिनामपि ॥ चत्वार एते कथिता ह्युपायाः प्रधानभूता भुवि पार्थिवानाम् । अतः परं ते कथयामि राम शेषांस्त्रयस्ते न मयेरिता ये ॥ इति। इति दण्डः । अथोपेक्षा । विष्णुधर्मोत्तरे, पुष्कर उवाच यदि मन्येत नृपतिरनेन मम विग्रहे । अनर्थायानुबन्धः स्यात्सन्धिना च तथा भवेत् ॥ साम लज्जास्पदं चात्र दानं चार्थक्षयङ्करम् । भेदे दण्डेऽनुबन्धः स्यात्तदोपेक्षां समाश्रयेत् ॥ अवज्ञापहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् । उपेक्षैव च धर्मज्ञ श्रेयसी तत्र सा स्मृता ॥ उपेक्षया यत्र तु शक्यमर्थक्षयव्ययायासविहीनया न । कार्यं भवेद्ब्राह्मण विग्रहेण लज्जास्पदेनाप्यथ सन्धिना च ॥ इति। यत्रार्थक्षयव्ययाभ्यामायासेन च विहीनयोपेक्षया शक्यं कार्यं कर्तुं तत्र हे ब्राह्मण राम लज्जास्पदेन विग्रहेण सन्धिना व कार्यं न भवेत् । इत्युपेक्षा । अथ माया । सा च विना मन्त्रतन्त्रादिकमन्यथाभूतस्यार्थस्यान्यथा- भासनोपायः । कपटमिति लोके प्रसिद्धम् । सा च—