भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 31, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 31

राजप्रशंसा । २५ न हि पापातपरतरमस्ति किञ्चिदराजकात् । स चेत्समनुपश्येत समग्रं कुशलं भवेत् ॥ श्रीरामायणे, नाराजके जनपदे योगः क्षेमं प्रवर्त्तते । न चाप्यराजके सेना शत्रून् विषहते परान् ॥ अराजके राजरहिते । अलब्धलाभो योगः । लब्धस्य र- क्षणं क्षेमम् । विषहते तन्निवारणक्षमा भवति । विपालाश्च यथा गावो यथा चातृणकं वनम् । विपाला रक्षकरहिताः । अजलाश्च यथा नद्यस्तथा राष्ट्रमराजकम् ॥ अन्धं तम इवेदं स्यान्नेह ज्ञायेत किञ्चन । राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी । गरुडपुराणे, धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ श्रीमहाभारते, राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् । राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति ॥ राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च । यमाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र ॥ राजाभिपन्नस्य राज्ञा अभिपन्नस्य कृताभियोगस्य । राजधर्मे, बृहस्पतिरुवाच । राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते । प्रजा राजभयादेव न खादन्ति परस्परम् ॥ ४