भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 32, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 32

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् । समुदीर्णम् सम्यक्कृतोदीरणं, समीचीनप्रकारेण स्वस्वदुः खाद्याख्यायकम् । समुत्सुकम् दुःखवशेन देशग्रामादि परित्य- क्तुमुत्कण्ठावन्तम् । प्रसादयति धर्मेण प्रसाधयंति राजते ॥ यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः । अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥ यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः । निराक्रन्दे आक्रन्दतीत्याक्रन्दो निषेधस्तदभावे । विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः ॥ न मिथ्यातिक्रमेरंश्च विषह्यापि परस्परम् । नेति काकुः । विमध्यातिक्रमेरन् इति पाठस्तु सुगम एव । अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥ एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः । अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥ हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् । हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥ व्यायच्छमानान् कृतप्रयत्नान् । ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः । विष्वग्लोपः प्रवर्त्तेत यदि राजा न पालयेत् ॥ यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च । हरेयुः सहसा पापा यदि राजा न पालयेत् ॥ पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु । अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥ १ प्रसाध च विराजते इति मुद्रितभारतपुस्तके पाठः ।