भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 313, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 313

पादानात्सामान्यतः सन्धिविग्रहचिन्ता । विशेषतस्तु षाड्गुण्य- प्रकरणे वक्ष्यते । मध्यन्दिने चे १ रात्रौ वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान् सार्द्धं तैरेक एव वा ॥ परस्पराविरुद्धानां तेषां च समुपार्जनम् । कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ तेषां, धर्मार्थकामानां बहुधा विरोधवताम् । समुपार्जनम्, सम्यगविरोधेन उपार्जनमुत्पादनम् । दूतसम्प्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ प्रणिधयः, चाराः । कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च यत्नतः । अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ अष्टविधं कर्म उशनसोक्तम्— आदाने च विसर्गे च तथा प्रेषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्धौ तथा युक्त आत्मशुद्धौ तथैव च । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥ इति । आदानं, करादिग्रहणम् । विसर्गः, पारितोषिकदानम् । प्रेषः, प्रेषणं भृत्यादीनाम् । अर्थवचनं,द्रव्यार्जनोपायः । अनुव- चनमिति क्वचित्पाठः । अनुवचनं, कार्यसन्देहे राजाज्ञा । दण्ड- {ः, शास्त्रोक्तदण्डप्रणयनम् । आत्मशुद्धिः, प्रायश्चित्तम् । दण्डशुद्ध्योः समायुकस्तेनाष्टगणिको नृपः। इति क्वचित्पाठः। १ ऽर्धरात्रे इति मुद्रितमनौ पाठः ।