वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 312, कुल 490 में से
संदर्भ में पढ़ें३१६ वीरमित्रोदयस्य राजनीतिप्रकाशे शरीरदुःखनिषेधः, अवश्यापेक्षितस्नानभोजनवस्त्रताम्बूलादिदानं बोध्यते । सुखान्वित इति पाठे देशविशेषणं तत् । अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ इति । एवं विनीतस्वाधिकारसमर्पणे प्रकार उक्तः — तत्रैव, अधिकारेषु सर्वेषु विनीतं विनियोजयेत् । आदौ स्वल्पे ततः पश्चात् क्रमेण च महत्स्वपि ॥ इति । पुत्रविनयस्य फलमुक्तम्— महाभारते, नैव स्वैररिभिर्वापि ग्रस्यते पुत्रवान्नृपः । तस्माद्राजा सदा पुत्रं संरक्षेच्छिक्षयीत च ॥ अमात्यैरात्मसदृशै राजपुत्रस्य रक्षणम् । चारैश्च विविधोपायैः प्रविधेयं पृथग्विधैः ॥ इति । इति राजपुत्ररक्षा । अथ सन्ध्यादिचिन्ता । तत्र मन्त्रिण इत्यनुवृत्तौ— मनुः, तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ तैः, मन्त्रिभिः। चिन्तयेत्, राजेति शेषः। सन्धिः, पणबन्धः । विग्रहः, वैर्यवस्कन्दः। स्थानं, सैन्यकोशपुरराष्ट्रभेदेन चतुर्विधम्। समुदयः, कृषिव्रजवनगुल्मस्थानवणिक्पशुशुल्कदण्डादिः। गुप्तिः, राष्ट्रादिरक्षा । लब्धप्रशमनं, देवताश्रमविद्यावतां धार्मिका- णां दानमानसम्मानयोगः । अत्र सामान्यं सन्धिविग्रहमित्यु-