वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 323, कुल 490 में से
संदर्भ में पढ़ेंषाड्गुण्यस्य प्रयोगकालः । ३२७ यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् । अत्युच्छ्रितं तथात्मानं तदा मन्येत विग्रहम् ॥ विष्णुधर्मोत्तरेऽपि, हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा । राज्ञा स्वयं बलीयसा सता हीनेन शत्रुणा सह विग्रहः कार्यः । मनुः, यदा मन्येत भावेन हृष्टं पुष्टं स्वकं बलम् । परस्य विपरीतं च तदा यायादरीन् प्रति ॥ विष्णुधर्मोत्तरेऽपि, बहुलाभकरं यत्स्यात्तदा यानं समाश्रयेत् । बहुव्ययक्षयायासं तेषां राम प्रकीर्त्तितम् ॥ बहुव्ययक्षयायासमित्यत्र समाहारद्वन्द्वेन नपुंसकतैकवद्भावौ । मनुः, यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्त्रिपून् ॥ विष्णुधर्मोत्तरेऽपि, आसीत कर्मविच्छेदं शक्तः कर्तुं रिपुर्यदा । यदा रिपुः शक्तः स्वापेक्षया सामर्थ्यवान् तदा कर्मणो विग्रहस्य विच्छेदं कर्तुमासीतेत्यर्थः । मनुः, मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥ विष्णुधर्मोत्तरेऽपि, अशुद्धपाष्णिर्बलवान्द्वैधीभावं समाश्रयेत् ।