वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 322, कुल 490 में से
संदर्भ में पढ़ें३२६ वीरमित्रोदयस्य राजनीतिप्रकाशे
एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ इति । आसनं द्विविधम्-क्षीणबलस्य मित्ररक्षार्थं सबलस्य वा। तदुक्तम्- तेनैव, क्षीणस्य चैव क्रमशौ दैवात्पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ इति । द्वैधं द्विविधम्-दुर्गदेशेऽर्द्धबलेन राजावस्थानम्, अर्द्धबलेन सेनापतिप्रयाणं, वैपरीत्येन वावस्थानं गमनं च । तदुक्तम्- बलस्य स्वामिनो वापि स्थितिः कार्यस्य सिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ इति । स्थितिः, द्विधाभूय स्थितिः । द्विधास्थितेर्द्वैधशरीरान्तर्गत- त्वात् । संश्रयो द्विविधः-अपहृतार्थस्यादानार्थः, अमुकमय- माश्रित इति भाविपीडानिवृत्त्यर्थश्च । तदुक्तम्- तेनैव, अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ इति । ते च कदा केन च कर्त्तव्या इत्यपेक्षायामाह- मनुः, यदाऽधिगच्छेदायतयामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥ आयत्याम्, उत्तरकाले । आधिक्यं, बलाधिक्यम् । तदा- त्वे, सम्प्रति । स च समेन बलीयसा वा कार्यः । तदुक्तम्- समेन सन्धिरन्वेष्यो हीनेन च बलीयसा । इति । स्वयं हीनेन सता समेन सह बलीयसा वा सह सन्धिरन्वेष्यः। मनुः