वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 321, कुल 490 में से
संदर्भ में पढ़ेंषाड्गुण्यलक्षणम् । ३२५ आसनं, विग्रहमुपेक्ष्य स्वदेशेऽवस्थितिः । तदुक्तम्- विग्रहेऽपि स्वके देशे स्थितिरासनमुच्यते । इति । द्वैधीभावः, स्वबलस्य द्विधाकरणम् । तदुक्तम्- बलार्द्धेन प्रयाणं तु द्वैधीभाव स उच्यते । इति । संश्रयः, परपीडितस्य प्रवलराजान्तराश्रयणम् । तदुक्तम्- उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः । सन्ध्यादयो द्विविधाः । तदुक्तम्- मनुना, सन्धिं च द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्वैधं संश्रयमेव च ॥ तत्र सन्धिर्द्विविधो यथा-आवाभ्यां राजान्तरं प्रति यानं कर्त्तव्यमिति क्रियमाण एकः, त्वमत्र याह्यहमन्यत्र यास्यामी- ति द्वितीयः। एतावपि प्रत्येकं द्विविधौ तात्कालिकफलवत्त्वोत्त- रकालीनफलवत्त्वाभ्याम् । तदुक्तम्- तेनैव, समानयानकर्मा च विपरीतस्तथैव च । तदात्वायांतसंयुक्तः संन्धिज्ञेयो द्विलक्षणः ॥ इति । विग्रहो द्विविधः-स्वकार्यार्थं मार्गशीर्षादिकालेऽकाले वा कृतः स्वयङ्कृत एकः, मित्रस्यापकारे केनचित्कृते तद्रक्षार्थ- मपरः । तदुक्तम्- तेनैव, स्वयङ्कृतश्च कार्यार्थमकाले काल एव च । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ इति । यानं द्विविधम्-बलवत एकाकिनो मित्रसहितस्य वा । तदुक्तम्- तेनैव,