वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 330, कुल 490 में से
संदर्भ में पढ़ें३३४ वीरमित्रोदयस्य राजनीतिप्रकाशे सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थितः ॥ राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् । आरूढः शैलसङ्काशं विचरन्सह लक्ष्मणः ॥ ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा । शुक्लमाल्याम्बरधरौ जानकीं प्रत्युपस्थितौ ॥ ततस्तस्य नगस्याग्रादाकाशस्थस्य दन्तिनः । भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ भर्तुरङ्कात्समुत्पत्य ततः कमललोचना । चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती ॥ ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः । सीतया च विशालाक्ष्या लङ्कां पर्यभितः स्थितः ॥ पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् । शुक्लमाल्याम्बरो रामो लक्ष्मणेन सहागतः ॥ इति । अष्टयुजा, अष्टवृषभयुक्तेन । मत्स्यपुराणे, शैलप्रासादनागाश्ववृषभारोहणं हितम् । द्रुमाणां श्वेतपुष्पाणां गमनं च तथा द्विज ॥ तृणद्रुमोद्भवो नाभौ तथा च बहुबाहुता । तथा च बहुशीर्षत्वं पलितोद्भव एव च ॥ सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता । चन्द्रार्कताराग्रसनं परिमार्जनमेव च ॥ शक्रध्वजालिङ्गनं च तदुच्छ्रायक्रिया तथा । भूम्यम्बुध्योरथाग्रसनं शत्रूणां च वधक्रिया ॥ जयो विवादो द्यूतेषु सङ्गमे च तथा द्विज । भक्षणं चाममांसानां मत्स्यानां पायसस्य च ॥