भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 329, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 329

यत्र कामावसायित्वं तथा येषां च विद्यते । एवमष्टगुणैश्वर्य्यसंयुता भीमविक्रमाः ॥ नानामत्त्वशिरोग्रीवा नानाप्रहरणायुधाः । नानाविरागवसना नानासत्त्ववपुर्धराः ॥ तथा नानाविधाहारा महाचेष्टा महाबलाः । भक्तानुकम्पिनो वीरा वरदाः कामरूपिणः ॥ प्रमथाः प्रतिगृह्णन्तु उपहारं नमोऽस्तु वः । सपुत्रमातृभृत्योऽहं सदारः शरणं गतः ॥ रक्षध्वं मां महाभागा गृहे युद्धे तथाध्वनि । चमूनां पृष्ठतो गत्वा नाशयध्वं तथा रिपून् ॥ स्वप्नं शुभाशुभं वापि कथयध्वं समाहिताः । विनिवृत्तश्च दास्यामि दत्तादभ्यधिकं बलिम् ॥ अनिवृत्तेन दातव्याः सयत्नेन च भूभुजा । पूर्ववच्च तथा रात्रौ स्वप्नप्रार्थनमिष्यते ॥ इति । तत्र सुस्वप्नदर्शने यात्रोक्ता— मत्स्यपुराणे, शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने । निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ॥ इति । अत्र प्रसङ्गात् शुभाशुभसूचकाः सुस्वप्ना दुःस्वप्नाश्चोच्यन्ते । तत्र श्रीरामायणे शुभस्वप्नविषये त्रिजटावाक्यम्— समग्रभवनां कृत्स्नां ग्रसमानः पुरीमिमाम् । स्वप्ने रामो मया दृष्टो रुधिरं पीतवान्बहु ॥ गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् । युक्तां नागसहस्रेण सुखमास्थाय राघवः ॥ स्वप्ने चाद्य मया दृष्टः शुक्लाम्बरधरावृतः ।