वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 328, कुल 490 में से
संदर्भ में पढ़ें३३२ वीरमित्रोदयस्य राजनीतिप्रकाशे इष्टानिष्टं समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥ यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः । हृदि न्यस्य कुशान् राज्ञः प्रयतस्तु पुरोहितः ॥ ततः स्वपेच्छुभे दृष्टे यात्रा देया तु नान्यथा । तृतीयेऽहनि सम्प्राप्ते देवं दिङ्नाथमर्चयेत् ॥ एकमेव महाभाग दिङ्नाथं च तथा ग्रहम् । यां दिशं नृपतिर्गच्छेन्नाथस्तस्यास्तथैव तम् ॥ चतुर्थेऽहनि सम्प्राप्ते ग्रहयागो विधीयते । पञ्चमेऽहनि सम्प्राप्ते सर्वयागस्तथैव च ॥ देवतानां स्वनगरे कृता यासां तथालयाः । तासां सम्पूजनं कार्यं स्वपुरे या व्यवस्थिताः ॥ तत्रैव रात्रौ भूतानां कर्त्तव्यं च तथार्चनम् । देववृक्षेषु चैत्येषु गोपुराट्टालकेषु च ॥ चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च । नदीतीरेषु रम्येषु देवतायतनेषु च ॥ तेषां सम्पूजनं कृत्वा स्वगृहे तान् समर्च्चयेत् । तत्र कृत्वा तथैवार्च्याः प्रमथा भूभुजा स्वयम् ॥ वासुदेवस्य देवस्य तथा सङ्कर्षणस्य च । प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च ॥ कीनाशशक्रवरुणधनेशानां तु ये गणाः । वायोश्च निर्ऋतेर्वह्नेस्तथा चन्द्रार्कयोश्च ये ॥ ग्रहाणामथ ऋक्षाणां स्कन्दस्य धनदस्य च । महाबला महाकाया महासत्त्वा महाव्रताः ॥ अणिमा महिमा चैव गरिमा लघिमा तथा । ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथा च ये ॥