वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 327, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे यात्रातः पूर्वं देवपूजा । ३३१ लान्तरप्रतीक्षा निषिद्ध्यते । विष्णुधर्मोत्तरे, चैत्रे वा मार्गशीर्षे वा यात्रां यायान्नराधिपः । इति । इदमुपलक्षणम् । अन्यापि ज्योतिःशास्त्रोक्ता सर्वापि का- लशुद्धिर्ग्राह्या । यात्रातः पूर्वं सप्तदिनपर्यन्तं देवपूजोक्ता— तत्रैव, सप्ताहेन यदा यात्रा भविष्यति महीपतेः । तदा दिने तु प्रथमे पूजनीयो विनायकः ॥ मोदकैरक्षतैर्हृद्या कुसुमैश्च तथा फलैः । गन्धवस्त्रैरलंकारैर्धूपैर्दीपैर्मनोहरैः ॥ अग्निपुराणे तु हरिशम्भ्वोरपि पूजोक्ता— पूजनीयो हरिः शम्भुर्मोदकाद्यैर्विनायकः । इति । द्वितीयेऽहनि कर्तव्यं सर्वदिक्पालपूजनम् । दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः ॥ शय्यां कुशाद्यैः कुर्वीत सितवस्त्रोत्तरच्छदाम् । विकिरेन्नागपुष्पैस्तां तथा सिद्धार्थकैः शुभैः ॥ तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः । हरिं दक्षिणपार्श्वे तु वामे ब्रह्माणमेव च ॥ पूजितं कलशं हृद्यं कुर्यादुष्णीषके दृढम् । नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम् ॥ एककालं हविष्यान्नं लघु भुक्त्वा महीपतिः । स्वयं दक्षिणपार्श्वेन मन्त्रमेतमुदीरयेत् ॥ नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च । वामनाय विरूपाय स्वप्नाधिपतये नमः ॥ भगवन्देवदेवेश शूलभृद्वृषवाहन ।