वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 326, कुल 490 में से
संदर्भ में पढ़ें३३० वीरमित्रोदयस्य राजनीतिप्रकाशे मनौ, यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः । इति । याज्ञवल्क्येऽपि, यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ इति । विष्णुधर्मोत्तरेऽपि, प्रज्वलन्ती तथैवोल्का दिशि यस्यां प्रपद्यते । भूकम्पो यां दिशं याति यां च केतुः प्रधूमयेत् ॥ निर्घातश्च पतेद्यत्र तां यायाद्वसुधाधिपः । विष्टिनायककं सैन्यं तथा भिन्नं परस्परम् ॥ विष्टिनायककं, विष्टिर्बलादाकृष्टः कर्मकरः स नायको यत्र तादृशम् । यूकामाक्षिकबहुलं बहुरोगाकुलं तथा । नास्तिकं भिन्नमर्यादं तथाऽमङ्गलवादिनम् ॥ अपेतप्रकृतिं चैव निराशं च तथा जये । इति । एतादृशं यदा परसैन्यं तदा यायादित्यनुषङ्गः । विष्णुर्यात्रामासानाह, चैत्रे मार्गशीर्षे वा यात्रां यायात् । इति। वाशब्दोऽनुक्तसमुच्चये तेन फाल्गुनोऽपि ग्राह्यः । तथाह- मनुः, मार्गशीर्षे शुभे मासे यायाद्यात्रां महीपतिः । फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥ इति । रिपुव्यसनस्य स्वातन्त्र्येण कालत्वाभिधानात्तत्काले का-