भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 325, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 325

यात्राप्रकरणे यात्राकालः । ३२९ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ इति । अग्निपुराणे सन्ध्यादीनामनेके प्रकारा उक्ता विस्त- रभयात्तु नेह लिख्यन्ते । अथ षाड्गुण्यमध्ये सङ्क्षेपतो 'याया- दरीन् प्रति'इति यदुक्तं तद्विस्तरतो निरूपयितुं यात्राप्रकरणम् । तत्रादौ तत्कालो निरूप्यते । स च तत्कालो विष्णुधर्मोत्तरे मात्स्ये चाभिहितः । राम उवाच । भगवन् धर्मशास्त्रज्ञ सर्वशास्त्रविशारद । यात्राकालविधानं मे कथयस्व महीक्षिताम् ॥ पुष्कर उवाच । यदा मन्येत नृपतिराक्रन्देन बलीयसा । पार्ष्णिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत् ॥ उच्छ्रायो वा भृता भृत्याः प्रभूतं च बलं मम । मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥ मूलं, स्वदेशः । अशुद्धपार्ष्णिर्नृपतिर्न तु यात्रां प्रयोजयेत् । पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य वा व्रजेत् । दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं परम् ॥ तमृक्षपीडासन्तप्तं पीडितं च तथा ग्रहैः । स्वबलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ॥ सम्भूतान्तरकोपं च क्षिप्रं यायादरिं नृपः । शत्रोर्वा व्यसने यायात्काल एष सुदुर्लभः ॥ इति । १ योधान्भृत्वा प्रभूतांश्च इति मात्स्ये पाठः । ४२

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 325, कुल 490 में से · BharatKosha