वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
यात्राप्रकरणे यात्राकालः । ३२९ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ इति । अग्निपुराणे सन्ध्यादीनामनेके प्रकारा उक्ता विस्त- रभयात्तु नेह लिख्यन्ते । अथ षाड्गुण्यमध्ये सङ्क्षेपतो 'याया- दरीन् प्रति'इति यदुक्तं तद्विस्तरतो निरूपयितुं यात्राप्रकरणम् । तत्रादौ तत्कालो निरूप्यते । स च तत्कालो विष्णुधर्मोत्तरे मात्स्ये चाभिहितः । राम उवाच । भगवन् धर्मशास्त्रज्ञ सर्वशास्त्रविशारद । यात्राकालविधानं मे कथयस्व महीक्षिताम् ॥ पुष्कर उवाच । यदा मन्येत नृपतिराक्रन्देन बलीयसा । पार्ष्णिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत् ॥ उच्छ्रायो वा भृता भृत्याः प्रभूतं च बलं मम । मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥ मूलं, स्वदेशः । अशुद्धपार्ष्णिर्नृपतिर्न तु यात्रां प्रयोजयेत् । पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य वा व्रजेत् । दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं परम् ॥ तमृक्षपीडासन्तप्तं पीडितं च तथा ग्रहैः । स्वबलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ॥ सम्भूतान्तरकोपं च क्षिप्रं यायादरिं नृपः । शत्रोर्वा व्यसने यायात्काल एष सुदुर्लभः ॥ इति । १ योधान्भृत्वा प्रभूतांश्च इति मात्स्ये पाठः । ४२
३३० वीरमित्रोदयस्य राजनीतिप्रकाशे मनौ, यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः । इति । याज्ञवल्क्येऽपि, यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ इति । विष्णुधर्मोत्तरेऽपि, प्रज्वलन्ती तथैवोल्का दिशि यस्यां प्रपद्यते । भूकम्पो यां दिशं याति यां च केतुः प्रधूमयेत् ॥ निर्घातश्च पतेद्यत्र तां यायाद्वसुधाधिपः । विष्टिनायककं सैन्यं तथा भिन्नं परस्परम् ॥ विष्टिनायककं, विष्टिर्बलादाकृष्टः कर्मकरः स नायको यत्र तादृशम् । यूकामाक्षिकबहुलं बहुरोगाकुलं तथा । नास्तिकं भिन्नमर्यादं तथाऽमङ्गलवादिनम् ॥ अपेतप्रकृतिं चैव निराशं च तथा जये । इति । एतादृशं यदा परसैन्यं तदा यायादित्यनुषङ्गः । विष्णुर्यात्रामासानाह, चैत्रे मार्गशीर्षे वा यात्रां यायात् । इति। वाशब्दोऽनुक्तसमुच्चये तेन फाल्गुनोऽपि ग्राह्यः । तथाह- मनुः, मार्गशीर्षे शुभे मासे यायाद्यात्रां महीपतिः । फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥ इति । रिपुव्यसनस्य स्वातन्त्र्येण कालत्वाभिधानात्तत्काले का-
यात्राप्रकरणे यात्रातः पूर्वं देवपूजा । ३३१ लान्तरप्रतीक्षा निषिद्ध्यते । विष्णुधर्मोत्तरे, चैत्रे वा मार्गशीर्षे वा यात्रां यायान्नराधिपः । इति । इदमुपलक्षणम् । अन्यापि ज्योतिःशास्त्रोक्ता सर्वापि का- लशुद्धिर्ग्राह्या । यात्रातः पूर्वं सप्तदिनपर्यन्तं देवपूजोक्ता— तत्रैव, सप्ताहेन यदा यात्रा भविष्यति महीपतेः । तदा दिने तु प्रथमे पूजनीयो विनायकः ॥ मोदकैरक्षतैर्हृद्या कुसुमैश्च तथा फलैः । गन्धवस्त्रैरलंकारैर्धूपैर्दीपैर्मनोहरैः ॥ अग्निपुराणे तु हरिशम्भ्वोरपि पूजोक्ता— पूजनीयो हरिः शम्भुर्मोदकाद्यैर्विनायकः । इति । द्वितीयेऽहनि कर्तव्यं सर्वदिक्पालपूजनम् । दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः ॥ शय्यां कुशाद्यैः कुर्वीत सितवस्त्रोत्तरच्छदाम् । विकिरेन्नागपुष्पैस्तां तथा सिद्धार्थकैः शुभैः ॥ तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः । हरिं दक्षिणपार्श्वे तु वामे ब्रह्माणमेव च ॥ पूजितं कलशं हृद्यं कुर्यादुष्णीषके दृढम् । नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम् ॥ एककालं हविष्यान्नं लघु भुक्त्वा महीपतिः । स्वयं दक्षिणपार्श्वेन मन्त्रमेतमुदीरयेत् ॥ नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च । वामनाय विरूपाय स्वप्नाधिपतये नमः ॥ भगवन्देवदेवेश शूलभृद्वृषवाहन ।
३३२ वीरमित्रोदयस्य राजनीतिप्रकाशे इष्टानिष्टं समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥ यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः । हृदि न्यस्य कुशान् राज्ञः प्रयतस्तु पुरोहितः ॥ ततः स्वपेच्छुभे दृष्टे यात्रा देया तु नान्यथा । तृतीयेऽहनि सम्प्राप्ते देवं दिङ्नाथमर्चयेत् ॥ एकमेव महाभाग दिङ्नाथं च तथा ग्रहम् । यां दिशं नृपतिर्गच्छेन्नाथस्तस्यास्तथैव तम् ॥ चतुर्थेऽहनि सम्प्राप्ते ग्रहयागो विधीयते । पञ्चमेऽहनि सम्प्राप्ते सर्वयागस्तथैव च ॥ देवतानां स्वनगरे कृता यासां तथालयाः । तासां सम्पूजनं कार्यं स्वपुरे या व्यवस्थिताः ॥ तत्रैव रात्रौ भूतानां कर्त्तव्यं च तथार्चनम् । देववृक्षेषु चैत्येषु गोपुराट्टालकेषु च ॥ चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च । नदीतीरेषु रम्येषु देवतायतनेषु च ॥ तेषां सम्पूजनं कृत्वा स्वगृहे तान् समर्च्चयेत् । तत्र कृत्वा तथैवार्च्याः प्रमथा भूभुजा स्वयम् ॥ वासुदेवस्य देवस्य तथा सङ्कर्षणस्य च । प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च ॥ कीनाशशक्रवरुणधनेशानां तु ये गणाः । वायोश्च निर्ऋतेर्वह्नेस्तथा चन्द्रार्कयोश्च ये ॥ ग्रहाणामथ ऋक्षाणां स्कन्दस्य धनदस्य च । महाबला महाकाया महासत्त्वा महाव्रताः ॥ अणिमा महिमा चैव गरिमा लघिमा तथा । ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथा च ये ॥
यत्र कामावसायित्वं तथा येषां च विद्यते । एवमष्टगुणैश्वर्य्यसंयुता भीमविक्रमाः ॥ नानामत्त्वशिरोग्रीवा नानाप्रहरणायुधाः । नानाविरागवसना नानासत्त्ववपुर्धराः ॥ तथा नानाविधाहारा महाचेष्टा महाबलाः । भक्तानुकम्पिनो वीरा वरदाः कामरूपिणः ॥ प्रमथाः प्रतिगृह्णन्तु उपहारं नमोऽस्तु वः । सपुत्रमातृभृत्योऽहं सदारः शरणं गतः ॥ रक्षध्वं मां महाभागा गृहे युद्धे तथाध्वनि । चमूनां पृष्ठतो गत्वा नाशयध्वं तथा रिपून् ॥ स्वप्नं शुभाशुभं वापि कथयध्वं समाहिताः । विनिवृत्तश्च दास्यामि दत्तादभ्यधिकं बलिम् ॥ अनिवृत्तेन दातव्याः सयत्नेन च भूभुजा । पूर्ववच्च तथा रात्रौ स्वप्नप्रार्थनमिष्यते ॥ इति । तत्र सुस्वप्नदर्शने यात्रोक्ता— मत्स्यपुराणे, शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने । निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ॥ इति । अत्र प्रसङ्गात् शुभाशुभसूचकाः सुस्वप्ना दुःस्वप्नाश्चोच्यन्ते । तत्र श्रीरामायणे शुभस्वप्नविषये त्रिजटावाक्यम्— समग्रभवनां कृत्स्नां ग्रसमानः पुरीमिमाम् । स्वप्ने रामो मया दृष्टो रुधिरं पीतवान्बहु ॥ गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् । युक्तां नागसहस्रेण सुखमास्थाय राघवः ॥ स्वप्ने चाद्य मया दृष्टः शुक्लाम्बरधरावृतः ।
३३४ वीरमित्रोदयस्य राजनीतिप्रकाशे सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थितः ॥ राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् । आरूढः शैलसङ्काशं विचरन्सह लक्ष्मणः ॥ ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा । शुक्लमाल्याम्बरधरौ जानकीं प्रत्युपस्थितौ ॥ ततस्तस्य नगस्याग्रादाकाशस्थस्य दन्तिनः । भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ भर्तुरङ्कात्समुत्पत्य ततः कमललोचना । चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती ॥ ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः । सीतया च विशालाक्ष्या लङ्कां पर्यभितः स्थितः ॥ पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् । शुक्लमाल्याम्बरो रामो लक्ष्मणेन सहागतः ॥ इति । अष्टयुजा, अष्टवृषभयुक्तेन । मत्स्यपुराणे, शैलप्रासादनागाश्ववृषभारोहणं हितम् । द्रुमाणां श्वेतपुष्पाणां गमनं च तथा द्विज ॥ तृणद्रुमोद्भवो नाभौ तथा च बहुबाहुता । तथा च बहुशीर्षत्वं पलितोद्भव एव च ॥ सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता । चन्द्रार्कताराग्रसनं परिमार्जनमेव च ॥ शक्रध्वजालिङ्गनं च तदुच्छ्रायक्रिया तथा । भूम्यम्बुध्योरथाग्रसनं शत्रूणां च वधक्रिया ॥ जयो विवादो द्यूतेषु सङ्गमे च तथा द्विज । भक्षणं चाममांसानां मत्स्यानां पायसस्य च ॥
यात्राप्रकरणे शुभस्वप्नाः । ३३५ दर्शनं रुधिरस्यापि स्नानं च रुधिरेण ह । सुरारुधिरमद्यानां पानं क्षीरस्य चाप्यथ ॥ अन्त्रैर्विचेष्टनं भूमौ निर्मलं गगनं तथा । सुखेन दोहनं शस्तं महिषीणां गवां तथा ॥ सिंहीनां हस्तिनीनां च वडवानां तथैव च ' प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः ॥ अम्भसा त्वाभिषेकश्च गवां शृङ्गाश्रितेन च । चन्द्राद्भ्रष्टेन वा राजन् ज्ञेयो राज्यप्रदो हि सः ॥ चन्द्राद्भ्रष्टेनाम्भसाभिषेकः । राज्याभिषेकश्च तथा शिरसश्छेदनं तथा । मरणं वह्निदाहश्च वह्निदाहो गृहस्य च ॥ लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्यादिवादनम् । तथोदकानां तरणं विषमस्य च लङ्घनम् ॥ हस्तिनीवडवानां च गवां च प्रसवो गृहे । आरोहणं तथाश्वानां रोदनं च तथा शुभम् ॥ वरस्त्रीणां तथा लाभस्तथाऽऽलिङ्गनमेव च । निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम् ॥ जीवतां भूमिपालानां सुहृदामपि दर्शनम् । दर्शनं देवतार्चानां विमलानां तथाम्भसाम् ॥ शुभान्यथैतानि नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद्ध्रुवमर्थलाभम् । स्वप्नानि धर्मज्ञभृतां वरिष्ठ व्याधेर्विमोक्षं च तथाऽऽतुरोऽपि॥इति। इति शुभस्वप्नाः । अथाशुभस्वप्नाः । तत्र श्रीरामायणे, विमानात्पुष्पकादद्य रावणः पतितो मया ।
३३६ वीरमित्रोदयस्य राजनीतिप्रकाशे कृष्यमाणः स्त्रिया दृष्टो मुण्डः पीताम्बरो हसन् ॥ रथेन खरयुक्तेन रक्तमाल्यानुलेपनः । स गत्वा दक्षिणामाशां प्रविष्टो गोमयह्रदम् ॥ कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी । काली करालवदना दिशं याम्यां प्रकर्षति ॥ वराहेण दशग्रीवः शिशुमारेण चासकृत् । उष्ट्रेण च मया दृष्टः प्रयातो दक्षिणां दिशम् ॥ समाजश्च मया दृष्टो गीतवादित्रनृत्तवान् । बिभ्रतां रक्तमाल्यानि रक्षसां रक्तवाससाम् ॥ लङ्का चेयं पुरी दृष्टा गजवाजिरथाकुला । सागरे पतिता कृत्स्ना भग्नप्राकारतोरणा ॥ पीत्वा तैलं प्रनृत्यन्ति प्रहसन्ति महास्वराः । लङ्कायां भस्मरूक्षायां सर्वराक्षसयोषितः ॥ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः । पीतैर्निवसनैर्दृष्टाः क्रीडन्तो गोमयह्रदे ॥ इति । मत्स्यपुराणविष्णुधर्मोत्तरयोरपि, इदानीं कथयिष्यामि निमित्तं स्वप्नदर्शने । नाभिं विनान्यगात्रेषु तृणवृक्षसमुद्भवः ॥ चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा । मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥ उच्चात्प्रपतनं चैव दोलारोहणमेव च । अञ्जनं पक्वलोहानां तपतामपि धारणम् ॥ रक्तपुष्पद्रुमाणां च चण्डालस्य तथैव च । १ अर्जनं पक्वलोहानां हयानामपि मारणम् । इति मात्स्ये पाठः
यात्राप्रकरणे दुःस्वप्नाः । ३३७ वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ॥ भक्षणं पक्वमांसानां तैलस्य कृसरस्य च । नर्तनं हसनं चैव विवाहो गीतमेव च ॥ तन्त्रीवाद्यविहीनानां वाद्यानां चापि वादनम् । स्रोतोऽवगाहगमनं स्नानं गोमयवारिणा ॥ पङ्कोदकेन च तथा महीतोयेन वाप्यथ । मातुः प्रवेशो जठरे चितारोहणमेव च ॥ शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः । दिव्यानन्तरिक्षभौमानामुत्पातानां च दर्शनम् ॥ देवद्विजातिभूपालगुरूणां क्रोध एव च । आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ॥ हानिश्चैव स्वगात्राणां विरेकवमनक्रिया । दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ॥ फलापहारश्च तथा गृहाणां चैव पातनम् । गृहसम्मार्जनं चैव धनहानिं विनिर्दिशेत् ॥ पीडा पिशाचक्रव्यादवानरान्त्यनरैरपि । परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ॥ काषायवस्त्रधारित्वं तद्वत्स्त्रीक्रीडनं तथा । तद्वत्स्त्रीक्रीडनं, काषायवस्त्रयुक्तस्त्रिया सह क्रीडनम् । स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् । एवमादीन्यधन्यानि स्वप्नानि तु विनिर्दिशेत् ॥ इति । ऐतरेयारण्यके, अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दत्याशुवायुरेनं भवहति सुवर्णं खादित्वापगिरति मध्वश्नाति बिसानि भक्षयत्ये- कपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णव- ४३
३३८ वीरमित्रोदयस्य राजनीतिप्रकाशे त्सां नलदमाली दक्षिणामुखो व्राजयति स यद्येतेषां किञ्चित्प- श्येदुषोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं हुत्वान्येनान्नेन ब्राह्मणान् भोजयित्वा चरुं स्वयं प्राश्नी- यात् । इति । ( आ० ३ अ० २ खं० १० ) अथेत्यादि दश स्वप्नारिष्टानि । स्वप्ने साकल्येनात्यन्तं कृष्णवर्णं पुरुषं कृष्णवर्णैर्दन्तैर्युक्तं पश्यति स च पुरुष एनं स्व- प्नद्रष्टारं हन्ति इत्येकमरिष्टम् । अरण्ये प्रौढो वराहो हन्ति इति द्वितीयम् । मर्कटो मूर्द्धन्यारोहतीति तृतीयम् । शीघ्रवायुः स्ववे- गेन निम्नदेशे बलात्प्रवहतीति चतुर्थम् । सुवर्णं भक्षयित्वा वमतीति पञ्चमम् । मधु आकण्ठमश्नातीति षष्ठम् । बिसानि पद्मा- नां नालानि भक्षयतीति सप्तमम् । एकं रक्तवर्णं पुण्डरीकं शि- रसि धारयतीति अष्टमम् । युक्तैरश्ववत्सज्जीकृतैर्गर्दभैर्वराहैर्वा ग्रामान्तरं गच्छतीति नवमम् । नलदमाली रक्तकुसुमग्रथितस्र- ग्वी दक्षिणदिगभिमुखो भूत्वा कृष्णवत्सोपेतां कृष्णां धेनुं व्राजयति प्रेरयतीति दशमम् । एतैः स्वप्नगतैररिष्टैः प्रत्यासन्नं मरणं निश्चित्य यदस्यानन्तरकर्त्तव्यं तद्दर्शयति-स यदीति । स पुमानेषामरिष्टानां मध्ये एकमपि पश्येत्तस्मिन्दिने उपोष्य स्थालीपाकविधानेन पायसं श्रपयित्वा रात्रीव्यरुयदायतीतिसू- क्तेन प्रत्यृचं हुत्वा स्वगृहपक्केनान्नेन यथाशक्ति ब्राह्मणान् भोज- यित्वा होमशेषं स्वयं प्राश्नीयात् । एतेषु स्वप्नेषु अयं विशेषः । सामान्यतस्तु दुःस्वप्नदर्शनेऽन्यो विधिरुक्तः— स्वप्नममनोज्ञं दृष्ट्वा द्यानो देव सवितरितिद्वाभ्यां यच्च गोषु दुःस्वप्नमिति पञ्चभिरादित्यमुपतिष्ठेत यो मे राजन्युज्यो वा सखा वेति सप्तभिरादित्यमुपतिष्ठेतैकया वा । इति । एषामकथनं धन्यं भूयश्च स्वपनं तथा ।
शुभाशुभस्वप्नविपाककालः । ३३९ एषां, दुःस्वप्नानाम् । कल्कस्नानं तिलैर्होमो ब्राह्मणानां च पूजनम् । स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम् ॥ नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् । तथा, अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैव एतन्नामाष्टकं शुभम् ॥ त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं याति दुःस्वप्नं च विनश्यति ॥ गङ्गायां मरणं चैव दृढभक्तिश्च केशवे । ब्रह्मविद्यावबोधश्च तस्मान्नित्यं पठेन्नरः ॥ इति । इति दुःस्वप्नाः । अथ शुभाशुभस्वप्नविपाककालः । स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः । षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्तृतीयके ॥ चतुर्थे मासमात्रेण पश्यतो नात्र संशयः । एकस्यां यदि वा रात्रौ शुभं वा यदि वाऽशुभम् ॥ पश्चात् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् । तस्माच्छोभनके स्वप्ने पश्चात्स्वप्नं न शस्यते ॥ इति । तदेवं पञ्चमेऽहनि सुस्वप्नदर्शने षष्ठेऽहनि यात्रायां निश्चि- तायां कृत्यान्तरमुक्तम्— विष्णुधर्मोत्तरे, षष्ठेऽहनि जयस्नानं कर्त्तव्यं च तथा भवेत् । विधिस्तस्याभिषेकार्थः सर्व एव विधीयते ॥ अस्य जयाभिषेकस्य प्रयोगो वक्ष्यते । अत्रैव वक्ष्यमाणा
३४० वीरमित्रोदयस्य राजनीतिप्रकाशे घृतकम्बलशान्तिर्नीराजनशान्तिश्च यथासम्भवं कर्त्तव्या यात्रादिने तु सम्प्राप्ते क्षुरकर्म विवर्जयेत् । अभ्यङ्गं गृहकार्य्यं च क्रोधशोकौ च काङ्कतम् ॥ काङ्कतं, केशप्रसाधनम् । यातव्यं येन तेनाद्य तदुक्तं स्नानमाचरेत् । स्नातः शुक्लाम्बरः स्रग्वी तथा श्वेतानुलेपनः ॥ चित्राभरणवान् राजा दूर्वापल्लवलाञ्छनः । — — — त्रिविक्रमम् ॥ जुहुयाच्च ततो वह्नौ सुसमिद्धे पुरोहितः । आयुष्यमभयं चैव तथा स्वस्त्ययनं गणम् ॥ शर्मवर्मगणं चैव तथा प्रतिरथं शुभम् । शाकुनं च तथा सूक्तं सूक्तं वैष्णवमेव च ॥ तथाग्निलक्षणोत्पत्तौ शुभे यायान्महीपतिः । नक्षत्रस्य दिशश्चैव नैवेद्यं यत्प्रकीर्तितम् ॥ तदेव नृपतिः प्राश्य यात्रां कुर्य्याद्यथाविधि । अहृद्यं मक्षिकाकेशकीटयुक्तं विवर्जयेत् ॥ दग्धं च वर्जयेद्यात्रा देया भवति नान्यथा । अन्यथा, केशकीटादिपाते । ततस्तु राजलिङ्गानामायुधानां तथैव च । नीराजनोक्तमन्त्रैस्तु सर्वांस्तानभिमन्त्रयेत् ॥ मन्त्रा यथा— राम उवाच । छत्राश्वकेतुकरिणां पताकाखङ्गचर्मणाम् । तथा दुन्दुभिचापानां ब्रूहि मन्त्रं ममानघ ॥
यात्राप्रकरणे छत्राश्वादीनामभिमन्त्रणमन्त्राः। ३४१ पुष्कर उवाच । शृणु मन्त्रान्महाभाग भगवान्यत्पराशरः । गालवाय पुरोवाच सर्वधर्मभृतां वरः ॥ पराशर उवाच । यथाम्बुदश्छादयति शिवायैमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्यवृद्धये ॥ इति छत्रमन्त्रः । गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ प्रभावस्त्वं हुताशस्य भगवंस्त्वं तुरङ्गम । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥ रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ॥ यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा । भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥ सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तच्च पापं भवेत्तव ॥ विकृतिं यदि गच्छेर्नो युद्धेऽध्वनि तुरङ्गम । रिपून् विजित्य समरे सह भर्त्रा सुखी भव ॥ इत्यश्वमन्त्रः । शक्रकेतो महावीर सुपर्णस्त्वच्युताश्रितः । पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ॥ काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः । अप्रमेयो दुराधर्षो रणे चैवारिसूदनः ॥
३४२ वीरमित्रोदयस्य राजनीतिप्रकाशे गरुत्मान्मारुतगतिस्त्वयि सन्निहितः स्थितः । साश्ववर्मायुधान्योधान् रक्षास्माकं महीमसून् ॥ इति ध्वजमन्त्रः कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ॥ तेषां पुत्राश्च पौत्राश्च वनान्यष्टौ समाश्रिताः । भद्रो मन्दो मृगश्चैव गजः सङ्कीर्ण एव च ॥ वने वने प्रसूतास्ते स्मर योनिं महागज । पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥ भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् । अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज ॥ श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् । स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात् ॥ युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः । अश्विभ्यां सह गन्धर्वाः पान्तु त्वां सर्वतः सदा ॥ इति हस्तिमन्त्रः । हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः । नागकिन्नरगन्धर्वयक्षभूतगणग्रहाः ॥ प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह । शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ॥ प्रदहन्तु रिपूसर्वान् राजा विजयमृच्छतु । यानि प्रयुक्तान्यरिभिर्दूषणानि समन्ततः ॥ पतन्तूपरि शत्रूणां हतानि तव तेजसा । कालनेमिवधे यद्वद्यद्वात्रिपुरघातने ॥ हिरण्यकशिपोर्यद्वधे सर्वासुरेषु च ।
यात्राप्रकरणे पताकाद्यभिमन्त्रणमन्त्राः । ३४३ शोभितासि तथैवाद्य शोभस्व समयं स्मर ॥ नीलान् श्वेतानिमान् दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ॥ पूतना रेवतीनाम्ना कालरात्रीति पठ्यते । दहत्वाशु रिपून्सर्वान् पताके त्वामुपाश्रिता ॥ इति पताकामन्त्रः । असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥ रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः । पिता पितामहो देवस्त्वं पालय सर्वदा ॥ इति खड्गमन्त्रः शर्मप्रदस्त्वं समरे चर्मन् सैन्याय मे ह्यसि । रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥ इति चर्ममन्त्रः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः । नवभूमिपसैन्यानां तथा विजयवर्धनः ॥ यथा जीमूतघोषेण हृष्यन्ति शिखिचारणाः । तथा च तव शब्देन त्रस्यन्त्वस्मद्विषो रणे ॥ इति दुन्दुभिमन्त्रः । सर्वायुध महामात्र सर्वदेवारिसूदन । चापस्त्वं सर्वतो रक्ष साकं शरवरैः सदा ॥ इति चापमन्त्रः ।
३४४ वीरमित्रोदयस्य राजनीतिप्रकाशे दैववित्प्रयतो भूत्वा राजा वाथ पुरोहितः । तेषां सम्पूजनं कृत्वा दैवज्ञं समुपस्थितम् ॥ धनेन पूजयेद्राजा दक्षिणाभिर्द्विजोत्तमान् । ततः पुण्याहघोषेण द्विजानां हतकल्मषः ॥ मङ्गलालम्भनं कृत्वा मन्त्रमेतं निशामयन् । आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥ लोकपालाः सगन्धर्वा नद्यः शैला मही द्विजाः । अग्निः स्वाहा स्वधा स्कन्दो होमो ब्रह्मा प्रजापतिः ॥ मुहूर्त्तास्तिथयो भानि वेदा अयनवत्सराः । गावः सरस्वती देवी दीर्घमायुर्दिशन्तु ते ॥ जगत्सिसृक्षोर्या सिद्धिर्बभूव ब्रह्मणः पुरा । जगज्जिष्णोश्च या विष्णोः सिद्धिरासीत्त्रिविक्रमे ॥ असुरैश्वर्यनाशे च बभूव त्र्यम्बकस्य या । सिद्धिस्त्रिदशवृद्ध्यर्थं त्रिपुरासुरघातने ॥ शक्रे वृत्रवधे या च स्कन्दे देवारिसङ्क्षये । तां प्राप्नुहि सदा सिद्धिं सा च यात्रास्तु ते सदा ॥ रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः । इति श्रुत्वा शुभां वाचं गृहीत्वा सशरं धनुः ॥ धन्वनागेतिमन्त्रेण दैवज्ञस्य करात्स्वयम् । तद्विष्णोः परमित्येव शृण्वन्मन्त्रमनुत्तमम् ॥ पैष्टे रिपुमुखे दद्यात्प्रथमं दक्षिणं पदम् । पदद्वात्रिंशकं गत्वा दिक्षु प्राच्यादिषु त्वथ ॥ नागं रथं हयं चैव युवानं चारुहेत्क्रमात् । युवानं, युवनरवाहं यानम् । आरुह्य सुमना गच्छेद्वाद्यघोषेण भूरिणा ॥
यात्राप्रकरणे इष्टशकुनानि । ३४५ स निष्क्रम्य महानीशो न पृष्ठमवलोकयेत् । मङ्गलानिततः पश्यन्निमित्तं च शनैर्व्रजेत् ॥ इति । मङ्गलानि, मङ्गलसूचकानि शकुनानि । निमित्तं, शरीर- स्फुरणादि । अथेष्टशकुनानि । तत्र विष्णुधर्मोत्तरे, अथेष्टानि प्रवक्ष्यामि मङ्गलानि तवानघ । श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भास्तथैव च ॥ जलजानि च शस्यानि मांसं मत्स्याश्च भार्गव । सस्यम्, अकृष्णं धान्यं, कृष्णधान्यस्यापशकुनेष्वग्रे पठितत्वात् । गावस्तुरङ्गमा नागा बद्ध एकः पशुस्त्वजः । त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ॥ गणिका च महाभाग दूर्वा चार्द्रा च गोमयम् । रुक्मं रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ॥ औषधानि च सर्वज्ञ वचासिद्धार्थके तथा । औषधानि, असंयोजितानि । नृवाह्ययानं यानं च भद्रपीठं तथैव च । खड्गं छत्रं पताकां च मृदमायुधमेव च ॥ राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् । घृतं दधि पयश्चैव फलानि विविधानि च ॥ स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम् । नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि च ॥ अक्षताश्च तथा मुख्यास्तथा दर्पणमेव च । अञ्जनं रोचनं चैव भृङ्गारो माक्षिकं तथा ॥ ४४
३४६ वीरमित्रोदयस्य राजनीतिप्रकाशे शङ्ख इक्षुस्तथा भक्ष्या वाचश्चैव तथा शुभाः । वादित्राणां सुखः शब्दो गम्भीरश्च मनोहरः ॥ गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः । अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ॥ वायुरिति शेषः । अनुकूलः, पृष्ठलग्नः । मेघाः शस्ता घनाः स्निग्धा गजबृंहितसन्निभाः ॥ बृंहितं, शब्दः । अनुलोमा तडिच्छस्ता शक्रचापं तथैव च । अनुलोमा ग्रहाः शस्ता दिक्पतिस्तु विशेषतः ॥ आस्तिक्यं श्रद्धानत्वं तथा पूज्याभिपूजनम् । शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ॥ मनसस्तुष्टिरेवात्र परमं जयलक्षणम् । एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥ यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो विजयप्रवादः । मङ्गल्यलब्धिः श्रवणं च राम ज्ञेयानि नित्यं विजयावहानि॥इति। इति दृष्टशकुनानि । अथापशकुनानि । विष्णुधर्मोत्तरे, औषधानि च युक्तानि धान्यं कृष्णमशोभनम् । कार्पासतृणकाष्ठं च गोमयं चेतराणि च ॥ युक्तानि, संयोजितानि । गोमयं, शुष्कगोमयम् । आर्द्रगो- मयस्य शकुनेषु पाठात् । अङ्गारं गुडमज्जास्तु मुण्डाभ्यक्तं च नग्नकम् । अङ्गारं सधूमम् ।
यात्राप्रकरणे अपशकुनानि । ३४७ अयः पङ्कं चर्म केशा उन्मत्तं च नपुंसकम् । चण्डालश्वपचाद्याश्च नरा बन्धनपालकाः ॥ गर्भिणी स्त्री च वधकापिण्याकादीनि वै मृतम् । मृतं, सरुदितम् । अरुदितमृतस्य शकुनेषु पाठात् । तुषभस्मकपालास्थिभिन्नभाण्डानि यानि च । अहृद्यो वधशब्दश्च भिन्नभैरवगर्जितः ॥ एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः । गच्छेतिशब्दः पश्चात्तु पुरस्तादपि गर्हितः ॥ क्व यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य च । अन्ये शब्दाश्च ये दुष्टास्ते विपत्तिकरा अपि ॥ ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम् । स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च ॥ विनिर्गतस्य द्वाराद्यैः शिरसश्चाभिघातनम् । छत्रध्वजादिवस्त्राणां पतनं च तथा ऽशुभम् ॥ वायुः सशर्करो रूक्षः सर्वदिग्भ्यः समुत्थितः । प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्विज ॥ ऋक्षा रूक्षस्वराः खड्गाः क्रव्यादाश्च विगर्हिताः । अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे ॥ दृष्ट्वा निमित्तं प्रथमं मङ्गल्यं विघ्ननाशनम् । केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम् ॥ द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम् । इति । इत्यपशकुनानि । अथ निमित्तानि । अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं शुभम् ।
३४८ वीरमित्रोदयस्य राजनीतिप्रकाशे अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥ लाञ्छनं पिटकं चैव ज्ञेयं स्फुरणवत्तथा । विपर्ययेण विहितं सर्वं स्त्रीणां विपर्ययम् ॥ दक्षिणेऽपि प्रशस्तेऽङ्गे प्रशस्तं स्याद्विशेषतः । अतोऽन्यथासिद्धिरजल्पनात्तु फलस्य शस्तस्य च निन्दितस्य। अरिष्टचिह्नोपगमे द्विजानां कार्यं सुवर्णेन च तर्पणं स्यात्॥ इति। अन्यत्रापि, नेत्रस्याधः स्फुरणमसकृत्सङ्गरे भङ्गहेतु— नेत्रोपान्ते हरति च धनं नासिकान्ते च मृत्युः ॥ नेत्रस्योर्ध्वं हरति सकलं मानसं दुःखजालं वामे चैतत्फलमविकलं दक्षिणे वैपरीत्यम् ॥ इति । ऐतरेयारण्यकेऽन्यान्यपि अशुभनिमित्तान्युक्तानि । तानि— यथा, स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमे- तदित्यवोचाम तौ यत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति सम्परेतोऽस्यात्मा न चिरमिव जीविष्यतीतिविद्यात्स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यच्च दूरक इति सप्त जपेदादित्यन्तस्य रेतस इत्येका यन्न ब्रह्मा पवमानेतिषळुद्वयन्तमसस्परीत्येकाथापि यत्र छिद्र इवादित्यो दृश्यते रथनाभिरिवाभिरुख्यायेत छिद्रां वा छायां पश्येत्तदप्येवमेव विद्यादथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वात्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्मेन वा दृश्ये- यातां तदप्येवमेव विद्यादथाप्यापिधायाक्षिणी उपेक्षेत तद्यथा बटरकाणि सम्पतन्तीव दृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव