वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 339, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे पताकाद्यभिमन्त्रणमन्त्राः । ३४३ शोभितासि तथैवाद्य शोभस्व समयं स्मर ॥ नीलान् श्वेतानिमान् दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ॥ पूतना रेवतीनाम्ना कालरात्रीति पठ्यते । दहत्वाशु रिपून्सर्वान् पताके त्वामुपाश्रिता ॥ इति पताकामन्त्रः । असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥ रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः । पिता पितामहो देवस्त्वं पालय सर्वदा ॥ इति खड्गमन्त्रः शर्मप्रदस्त्वं समरे चर्मन् सैन्याय मे ह्यसि । रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥ इति चर्ममन्त्रः । दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकम्पनः । नवभूमिपसैन्यानां तथा विजयवर्धनः ॥ यथा जीमूतघोषेण हृष्यन्ति शिखिचारणाः । तथा च तव शब्देन त्रस्यन्त्वस्मद्विषो रणे ॥ इति दुन्दुभिमन्त्रः । सर्वायुध महामात्र सर्वदेवारिसूदन । चापस्त्वं सर्वतो रक्ष साकं शरवरैः सदा ॥ इति चापमन्त्रः ।