वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 340, कुल 490 में से
संदर्भ में पढ़ें३४४ वीरमित्रोदयस्य राजनीतिप्रकाशे दैववित्प्रयतो भूत्वा राजा वाथ पुरोहितः । तेषां सम्पूजनं कृत्वा दैवज्ञं समुपस्थितम् ॥ धनेन पूजयेद्राजा दक्षिणाभिर्द्विजोत्तमान् । ततः पुण्याहघोषेण द्विजानां हतकल्मषः ॥ मङ्गलालम्भनं कृत्वा मन्त्रमेतं निशामयन् । आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥ लोकपालाः सगन्धर्वा नद्यः शैला मही द्विजाः । अग्निः स्वाहा स्वधा स्कन्दो होमो ब्रह्मा प्रजापतिः ॥ मुहूर्त्तास्तिथयो भानि वेदा अयनवत्सराः । गावः सरस्वती देवी दीर्घमायुर्दिशन्तु ते ॥ जगत्सिसृक्षोर्या सिद्धिर्बभूव ब्रह्मणः पुरा । जगज्जिष्णोश्च या विष्णोः सिद्धिरासीत्त्रिविक्रमे ॥ असुरैश्वर्यनाशे च बभूव त्र्यम्बकस्य या । सिद्धिस्त्रिदशवृद्ध्यर्थं त्रिपुरासुरघातने ॥ शक्रे वृत्रवधे या च स्कन्दे देवारिसङ्क्षये । तां प्राप्नुहि सदा सिद्धिं सा च यात्रास्तु ते सदा ॥ रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः । इति श्रुत्वा शुभां वाचं गृहीत्वा सशरं धनुः ॥ धन्वनागेतिमन्त्रेण दैवज्ञस्य करात्स्वयम् । तद्विष्णोः परमित्येव शृण्वन्मन्त्रमनुत्तमम् ॥ पैष्टे रिपुमुखे दद्यात्प्रथमं दक्षिणं पदम् । पदद्वात्रिंशकं गत्वा दिक्षु प्राच्यादिषु त्वथ ॥ नागं रथं हयं चैव युवानं चारुहेत्क्रमात् । युवानं, युवनरवाहं यानम् । आरुह्य सुमना गच्छेद्वाद्यघोषेण भूरिणा ॥