वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 341, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे इष्टशकुनानि । ३४५ स निष्क्रम्य महानीशो न पृष्ठमवलोकयेत् । मङ्गलानिततः पश्यन्निमित्तं च शनैर्व्रजेत् ॥ इति । मङ्गलानि, मङ्गलसूचकानि शकुनानि । निमित्तं, शरीर- स्फुरणादि । अथेष्टशकुनानि । तत्र विष्णुधर्मोत्तरे, अथेष्टानि प्रवक्ष्यामि मङ्गलानि तवानघ । श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भास्तथैव च ॥ जलजानि च शस्यानि मांसं मत्स्याश्च भार्गव । सस्यम्, अकृष्णं धान्यं, कृष्णधान्यस्यापशकुनेष्वग्रे पठितत्वात् । गावस्तुरङ्गमा नागा बद्ध एकः पशुस्त्वजः । त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ॥ गणिका च महाभाग दूर्वा चार्द्रा च गोमयम् । रुक्मं रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ॥ औषधानि च सर्वज्ञ वचासिद्धार्थके तथा । औषधानि, असंयोजितानि । नृवाह्ययानं यानं च भद्रपीठं तथैव च । खड्गं छत्रं पताकां च मृदमायुधमेव च ॥ राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् । घृतं दधि पयश्चैव फलानि विविधानि च ॥ स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम् । नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि च ॥ अक्षताश्च तथा मुख्यास्तथा दर्पणमेव च । अञ्जनं रोचनं चैव भृङ्गारो माक्षिकं तथा ॥ ४४