वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 342, कुल 490 में से
संदर्भ में पढ़ें३४६ वीरमित्रोदयस्य राजनीतिप्रकाशे शङ्ख इक्षुस्तथा भक्ष्या वाचश्चैव तथा शुभाः । वादित्राणां सुखः शब्दो गम्भीरश्च मनोहरः ॥ गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः । अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ॥ वायुरिति शेषः । अनुकूलः, पृष्ठलग्नः । मेघाः शस्ता घनाः स्निग्धा गजबृंहितसन्निभाः ॥ बृंहितं, शब्दः । अनुलोमा तडिच्छस्ता शक्रचापं तथैव च । अनुलोमा ग्रहाः शस्ता दिक्पतिस्तु विशेषतः ॥ आस्तिक्यं श्रद्धानत्वं तथा पूज्याभिपूजनम् । शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ॥ मनसस्तुष्टिरेवात्र परमं जयलक्षणम् । एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥ यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो विजयप्रवादः । मङ्गल्यलब्धिः श्रवणं च राम ज्ञेयानि नित्यं विजयावहानि॥इति। इति दृष्टशकुनानि । अथापशकुनानि । विष्णुधर्मोत्तरे, औषधानि च युक्तानि धान्यं कृष्णमशोभनम् । कार्पासतृणकाष्ठं च गोमयं चेतराणि च ॥ युक्तानि, संयोजितानि । गोमयं, शुष्कगोमयम् । आर्द्रगो- मयस्य शकुनेषु पाठात् । अङ्गारं गुडमज्जास्तु मुण्डाभ्यक्तं च नग्नकम् । अङ्गारं सधूमम् ।