भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 343, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 343

यात्राप्रकरणे अपशकुनानि । ३४७ अयः पङ्कं चर्म केशा उन्मत्तं च नपुंसकम् । चण्डालश्वपचाद्याश्च नरा बन्धनपालकाः ॥ गर्भिणी स्त्री च वधकापिण्याकादीनि वै मृतम् । मृतं, सरुदितम् । अरुदितमृतस्य शकुनेषु पाठात् । तुषभस्मकपालास्थिभिन्नभाण्डानि यानि च । अहृद्यो वधशब्दश्च भिन्नभैरवगर्जितः ॥ एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः । गच्छेतिशब्दः पश्चात्तु पुरस्तादपि गर्हितः ॥ क्व यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य च । अन्ये शब्दाश्च ये दुष्टास्ते विपत्तिकरा अपि ॥ ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम् । स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च ॥ विनिर्गतस्य द्वाराद्यैः शिरसश्चाभिघातनम् । छत्रध्वजादिवस्त्राणां पतनं च तथा ऽशुभम् ॥ वायुः सशर्करो रूक्षः सर्वदिग्भ्यः समुत्थितः । प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्विज ॥ ऋक्षा रूक्षस्वराः खड्गाः क्रव्यादाश्च विगर्हिताः । अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे ॥ दृष्ट्वा निमित्तं प्रथमं मङ्गल्यं विघ्ननाशनम् । केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम् ॥ द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम् । इति । इत्यपशकुनानि । अथ निमित्तानि । अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं शुभम् ।