भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

यात्राप्रकरणे अपशकुनानि । ३४७ अयः पङ्कं चर्म केशा उन्मत्तं च नपुंसकम् । चण्डालश्वपचाद्याश्च नरा बन्धनपालकाः ॥ गर्भिणी स्त्री च वधकापिण्याकादीनि वै मृतम् । मृतं, सरुदितम् । अरुदितमृतस्य शकुनेषु पाठात् । तुषभस्मकपालास्थिभिन्नभाण्डानि यानि च । अहृद्यो वधशब्दश्च भिन्नभैरवगर्जितः ॥ एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः । गच्छेतिशब्दः पश्चात्तु पुरस्तादपि गर्हितः ॥ क्व यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य च । अन्ये शब्दाश्च ये दुष्टास्ते विपत्तिकरा अपि ॥ ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम् । स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च ॥ विनिर्गतस्य द्वाराद्यैः शिरसश्चाभिघातनम् । छत्रध्वजादिवस्त्राणां पतनं च तथा ऽशुभम् ॥ वायुः सशर्करो रूक्षः सर्वदिग्भ्यः समुत्थितः । प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्विज ॥ ऋक्षा रूक्षस्वराः खड्गाः क्रव्यादाश्च विगर्हिताः । अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे ॥ दृष्ट्वा निमित्तं प्रथमं मङ्गल्यं विघ्ननाशनम् । केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम् ॥ द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम् । इति । इत्यपशकुनानि । अथ निमित्तानि । अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं शुभम् ।

३४८ वीरमित्रोदयस्य राजनीतिप्रकाशे अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥ लाञ्छनं पिटकं चैव ज्ञेयं स्फुरणवत्तथा । विपर्ययेण विहितं सर्वं स्त्रीणां विपर्ययम् ॥ दक्षिणेऽपि प्रशस्तेऽङ्गे प्रशस्तं स्याद्विशेषतः । अतोऽन्यथासिद्धिरजल्पनात्तु फलस्य शस्तस्य च निन्दितस्य। अरिष्टचिह्नोपगमे द्विजानां कार्यं सुवर्णेन च तर्पणं स्यात्॥ इति। अन्यत्रापि, नेत्रस्याधः स्फुरणमसकृत्सङ्गरे भङ्गहेतु— नेत्रोपान्ते हरति च धनं नासिकान्ते च मृत्युः ॥ नेत्रस्योर्ध्वं हरति सकलं मानसं दुःखजालं वामे चैतत्फलमविकलं दक्षिणे वैपरीत्यम् ॥ इति । ऐतरेयारण्यकेऽन्यान्यपि अशुभनिमित्तान्युक्तानि । तानि— यथा, स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमे- तदित्यवोचाम तौ यत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति सम्परेतोऽस्यात्मा न चिरमिव जीविष्यतीतिविद्यात्स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यच्च दूरक इति सप्त जपेदादित्यन्तस्य रेतस इत्येका यन्न ब्रह्मा पवमानेतिषळुद्वयन्तमसस्परीत्येकाथापि यत्र छिद्र इवादित्यो दृश्यते रथनाभिरिवाभिरुख्यायेत छिद्रां वा छायां पश्येत्तदप्येवमेव विद्यादथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वात्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्मेन वा दृश्ये- यातां तदप्येवमेव विद्यादथाप्यापिधायाक्षिणी उपेक्षेत तद्यथा बटरकाणि सम्पतन्तीव दृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव

यात्राप्रकरणे अशुभनिमित्तानि । ३४९ विद्यादथापिधाय कर्णौ उपशृणुयात्स एषोऽग्नेरिव प्रज्व- लतो रथस्येवोपब्दिस्तं यदा न शृणुयात्तदप्येवमेव विद्याद्- थापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत त- दप्येवमेव विद्यादथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येव- मेव विद्यादिति प्रत्यक्षदर्शनानि । इति (आ०३अ०२खं०१०) स यश्चायमिति । स यो ज्ञानरूपोऽशरीर आत्मा स चा- दित्यमण्डलस्थश्च एक एवेत्यवोचाम-"यश्चासावादित्यमण्डले पुरुषः सोऽहम्” इत्यनेन । तदेकत्वं तिरोधायादित्यशरीरपुरुषौ यदा विहीयेते वियुक्तौ भवत इत्येकमरिष्टम् । तत्र लिङ्गम्-चन्द्र- मा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्तीति। रश्मय उष्णाः । मञ्जिष्ठावत् द्यौर्लोहिनी दृश्यते इति द्वितीयम् । पायुद्वारं व्यस्तं विवृतं दृश्यते इति तृतीयम् । काकनीडसदृशगन्धमस्य शिरो भवतीति चतुर्थम् । एषामन्यतरस्मिन् सम्पन्नेऽस्यात्मा जीवो मृतो न चिरञ्जीविष्यतीति निश्चिनुयात् । ततः किमि- त्याह-स यदिति । करणीयं, लौकिकं वैदिकं च । तावद्विलम्ब- सिद्ध्यर्थं यदन्तीत्यादिका ऋचो जपेत् । अरिष्टान्तरं दर्शयति- अथेति। सूर्यो रथचक्रनाभिरिव सच्छिद्रो भवति, स्वच्छायों वा सच्छिद्रां पश्येत्, तदपि पूर्ववत् । आदर्शो, दर्पणः । अत्रादर्शो- दकाभ्यां प्रतिबिम्बयोग्यानि स्वच्छानि खड्गादीन्युपलक्ष्य- न्ते । तेषु प्रतिबिम्बयोग्येषु द्रव्येषु आत्मानं स्वकीयं देहं जि- ह्मशिरसं कुटिलशिरसं शिरोरहितं वा पश्येदिति निमित्तद्वय- म् । कन्याके, अक्षिकनीनिके, प्रतिबिम्बितचक्षुर्गर्त्तमध्ये विप- र्यस्ते शुक्लमण्डलमध्ये कृष्णमण्डलमिति यथास्थितचक्षुःसन्नि- वेशापेक्षया विपरीते, जिह्येन वा, वक्रत्वेन वा उपलक्षिते इति

३५० वीरमित्रोदयस्य राजनीतिप्रकाशे निमित्तद्वयमेवं निमित्तचतुष्टयम् । अरिष्टसूचकमरिष्टान्तरं दर्श- यति-अथापीति । अक्षिणी नेत्रे अपिधायाच्छाद्य निमी- ल्येत्यर्थः । उपेक्षेत पश्येत्, अपाङ्गाववष्टभ्येति शेषः । बद- रकाणि, नानावर्णानि कार्पासपटलानीव सम्पतान्ति पतमा- नानि पश्येत् । इदं च वस्तुगतिकथनम् । बदरकाणि यदा न पश्येत् नावलोकयेत्, तदपि एवमेव, पूर्वोक्तारिष्टवदेव विद्या- त् जानीयात् । अरिष्टान्तरं दर्शयति-अथापीति । अत्रापि व- स्तुगतिकथनम् । सर्वो हि लोकः कर्णौ स्वश्रोत्ररन्ध्रे अपिधा- य, स्वाङ्गुलीभ्यां दृढमिति शेषः । शृणुयात्, शब्दस्य साक्षात्कारं कुर्यात्करोति । स एषः, स शब्दः, प्रज्वलतोऽग्नेरिव, रथस्येव, वेगेन गच्छत इति शेषः । उपब्दिः, घोषः । प्रज्वलतोऽग्ने- र्घोष इव वेगेन गच्छतो रथस्य घोष इवेति वस्तुस्थितिः । तं य- दा न शृणुयात् तदापि एवमेव पूर्वोक्तमिव विद्यात् । अरिष्टा- न्तरं दर्शयति-अथापीति । यथा मयूरस्य शिखण्डिनो ग्रीवा नीललोहिता तथाग्निंर्नील इव दृश्यते तदप्यरिष्टान्तरम् । अ- मेघे, मेघरहिते निर्मलाकाशे, विद्युतं, परैरदृश्यमानामितिशेषः । पश्येदवलोकयति । मेघे वा विद्युतं, परैरदृश्यमानामितिशेषः। न पश्येत् । महामेघे, वर्षर्तुमध्ये भूमौ सर्वत्रान्धकारमापादयन् प्रौढो मेघो मध्याह्नादिकाले कदाचिद्भवति स महामेघस्तस्मिन् महामेघे । मरीचीरिव सूर्यरश्मीनिव पश्येत् एवं चत्वार्यरिष्टानि। अथापीति । यत्र भूमिं शुष्कतृणलोष्टादिरहितां केवलां मृत्तिकां ज्वलतीं ज्वालायुक्तामिव पश्येत् इत्येकमरिष्टम् । उदाहृतानाम- रिष्टानामुपसंहार-इति प्रत्यक्षदर्शनानीति । जागरावस्थायामपि प्रत्यक्षेण दृश्यमानान्यरिष्टानि ज्ञेयानि। अथ राज्ञो युद्धार्थं प्रास्थि- तस्य षड्दिनपर्यन्तं प्रस्थानमभिहितं सप्तमे दिने यात्रा। तत्र विष्णु-

यात्राप्रकरणे जयस्नानविधिः । ३५१ धर्मोत्तरे षष्ठे दिने जयस्नानमभिहितम्— षष्ठेऽहनि जयस्नानं कर्त्तव्यं च तथा भवेत् । विधिस्तस्याभिषेकार्थः सर्व एव विधीयते ॥ इत्यादिना । तद्विधिश्च लिङ्गपुराणेऽभिहितः । तथा हि महादेवं प्रति मनोः प्रश्नः । शक्राय कथितं पूर्वं धर्मकामार्थमुक्तिदम् । जयाभिषेकं देवेश वक्तुमर्हसि मे प्रभो ॥ सूत उवाच । तस्मै देवो महादेवो भगवान्नीललोहितः । जयाभिषेकमखिलमवदत्परमेश्वरः ॥ शिव उवाच । जयाभिषेकं वक्ष्यामि नृपाणां हितकाम्यया । अपमृत्युजयार्थं तु सर्वशत्रुजयाय च ॥ युद्धकाले च सम्प्राप्ते कृत्वेदमभिषेचनम् । स्वपत्नीं चाभिषिच्यैवं गच्छेद्योद्धुं रणाजिरे ॥ विधिना मण्डपं कृत्वा प्रपां वा कूटमेव वा । नवधा स्थापयेद्वह्निं ब्राह्मणो वेदपारगः ॥ ततः सर्वाभिषेकार्थं सूत्रपातं च कारयेत् । प्रागायं वर्णसूत्रं च दांक्षणायं तथा पुनः ॥ सहस्राणां द्वयं तत्र शतानां च चतुष्टयम् । शेषमेकं तथा कोष्ठं तेषु कोष्ठानि संहरेत् ॥ बाह्ये वीथ्यां पदं चैकं समन्तादुपसंहरेत् । अङ्गसूत्राणि सङ्गृह्य विधिना पृथगेव तु ॥ प्रागायं वर्णसूत्रं च दक्षिणाग्रं तथा पुनः ।

३५२ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रागाग्रं दक्षिणाग्रं च षट् रेखाः संहरेत्क्रमात् ॥ प्रागाद्याः पङ्क्तयः सप्त दक्षिणाग्रास्तथा पुनः । तस्मादेकोनपञ्चाशत्पङ्क्तयः परिकीर्त्तिताः ॥ न च पङ्क्तिं हरेन्मध्ये गन्धगोमयवारिणा । कमलं वा लिखेत्तत्र हस्तमात्रं सुशोभनम् ॥ अष्टपत्रं सितं वृत्तं कर्णिकाकेसरान्वितम् । अष्टाङ्गुलप्रमाणेन कर्णिका हेमसन्निभा ॥ चतुरङ्गुलमानेन केसरस्थानमुच्यते । धर्मं ज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमम् ॥ आग्नेयादिषु कोणेषु स्थापयेत्प्रणवेन तु । अव्यक्तादीनि वै दिक्षु गोवाचारेण विन्यसेत् ॥ अव्यक्तो नियतः कालः कला चेति चतुष्टयम् । सितरक्तहिरण्याभकृष्णा धर्मादयः क्रमात् ॥ हंसाकारेण वै गात्रं हेमाभासेन सुव्रत । शक्तिराधारमध्ये तु कमलं सृष्टिकारणम् ॥ बिन्दुमात्रं कलामध्ये नादाकारमतः परम् । नादोपरि शिवं ध्यायेदोङ्काराख्यं जगद्गुरुम् ॥ मनोन्मनीं पदान्तस्थां महादेवं च भावयेत् । वामादयः क्रमेणैव प्रागाद्याः केसरेषु वै ॥ वामा ज्येष्ठा तथा रौद्री कला विकरणी तथा । बलप्रमथनी देवी दमनी च यथाक्रमम् ॥ वामदेवादिभिः सार्द्धं प्रणवेन तु विन्यसेत् । नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने ॥ रुद्राय कालरूपाय कलाविकरणाय च । बलानां च तथा सर्वभूतस्य दमनाय च ॥

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३५३ मनोन्मनाय देवाय मनोन्मन्यै नमो नमः । मन्त्रैरेतैैर्यथान्यायं पूजयेन्मण्डलोपरि ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । द्वितीयावरणे चैव शक्तयः षोडशैव तु ॥ तृतीयावरणे चैव चतुर्विंशदनुक्रमात् । पिशाचवीथी वै मध्ये नाभिवीथी समन्ततः ॥ पिशाचानां हि मध्ये तु महावीथी प्रकीर्तिता । अष्टोत्तरसहस्रं तु पदमष्टारसंयुतम् ॥ तेषु तेषु पृथक्त्वेन पदेषु कमलं क्रमात् । कल्पयेच्छालीनीवारगोधूमाणुयवादिभिः ॥ तण्डुलैश्च तिलैर्वाथ गौरसर्षपसंयुतैः । अथ वा कल्पयेदेतैैर्यथाकालं विधानतः ॥ अष्टपत्रं लिखेत्तेषु कर्णिकाकेसरान्वितम् शालीनामाढकं प्रोक्तं कमलानां पृथक् पृथक् ॥ तण्डुलानां तदर्द्धं स्यात्तदर्द्धं तु यवादयः । द्रोणं प्रधानकुम्भस्य तदर्द्धं तण्डुलाः स्मृताः ॥ तिलानामाढकं मध्ये यवानां च तदर्द्धकम् । अर्घ्याम्भसा समभ्युक्ष्य कमलं प्रणवेन तु ॥ तेषु सर्वेषु विधिना प्रणवं च न्यसेक्रमात् । एवं समाप्य चाभ्यर्च्य पदसाहसमुत्तमम् ॥ कलशानां सहस्राणि हैमानि च शुभानि तु । उक्तलक्षणयुक्तानि कारयेद्राजतानि वा ॥ १ मन्त्रैरेतैैर्यथान्यायं पिशाचानां प्रकीर्तिता । इतिमुद्रितलिङ्गपु- राणे पाठः । ४५

३५४ वीरमित्रोदयस्य राजनीतिप्रकाशे ताम्रजानि यथान्यायं प्रणवेनार्घ्यवारिणा । द्वादशाङ्गुलविस्तारमुदरे समुदाहृतम् ॥ वर्त्तितस्तु तदर्द्धेन नाभिस्तस्य विधीयते । कण्ठं च व्यङ्गुलोत्सेधं विस्तारं चतुरङ्गुलम् ॥ ओष्ठं तु व्यङ्गुलोत्सेधं निर्गमं तु द्विरङ्गुलम् । तस्माद्वै द्विगुणं दिव्यं शिवकुम्भं प्रकीर्त्तितम् ॥ यवमात्रान्तरं सम्यक् तन्तुनावेष्ट्य कीर्त्तितः । १ अत्र मुद्रितलिङ्गपुराणे-यवमात्रान्तरं सम्यक्तन्तुनावेष्टयेद्द्वि- वै। इति पाठपूर्वकम्-“अवगुण्ठ्य तथाभ्युक्ष्य कुशोपरि यथावि- धि। पूर्ववत्प्रणवेनैव पूरयेद्गन्धवारिणा ॥ स्थापयेच्छिवकुम्भा- ख्यं वर्धनीं च विधानतः। मध्यपद्मस्य मध्ये तु सकूर्चं साक्षतं क्र- मात् ॥ आवेष्ट्य वस्त्रयुग्मेन प्रच्छाद्यकमलेन तु। हैमेन चित्ररत्नेन सहस्रकलशं पृथक् ॥ शिवकुम्भे शिवं स्थाप्य गायत्र्या प्रणवेन च। विद्महे पुरुषायैव महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । मन्त्रेणानेन रुद्रस्य सान्निध्यं सर्वदा स्मृतम् । वर्धन्यां देव गायत्र्या देवीं संस्थाप्य पूजयेत् ॥ गणाम्बिकायै विद्महे महातपायै धीमहि। तन्नो गौरी प्रचोदयात् । प्रथमावरणे चैव वामाद्याः परिकीर्तिताः। प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ शक्तयः षोडशैवात्र पूर्वाद्यं तेषु सुव्रत । ऐन्द्रव्यूहस्य मध्ये तु सुभद्रां स्थाप्य पूजयेत् ॥ भद्रामाग्नेयचक्रे तु याम्ये तु कनकाण्डजाम् । अम्बिकां नैर्ऋते व्यूहे मध्यकुम्भे तु पूजयेत् ॥ श्रीदेवीं वारुणे भागे वागीशां वायुगोचरे। गोमुखीं सौम्यभागे तु मध्ये कुम्भे तु पूजयेत् ॥ रुद्रव्यूहस्य मध्ये तु भद्रकर्णी समर्चयेत् । ऐन्द्राग्निविदिशोर्मध्ये पूजयेदणिमां शुभाम् ॥ याम्यपावकयोर्मध्ये लघिमां कमले न्यसेत् । राक्षसा- न्तकयोर्मध्ये महिमां मध्यतो यजेत् ॥ वरुण/सुरयोर्मध्ये प्राप्तिं वै मध्यतो यजेत् ॥ वरुणानिलयोर्मध्ये प्राकाम्यं कमले न्यसेत् ॥ वित्तेशानिलयोर्मध्ये ईशित्वं स्थाप्य पूजयेत् । वित्तेशेशानयोर्म- ध्ये वशित्वं स्थाप्य पूजयेत् ॥ ऐन्द्रेशेशानयोर्मध्ये यजेत्कामावसा-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३५५ १पूर्वे या देवताः सर्वाः प्रधानकलशेषु च ॥ पूजयेद्व्यूहमध्ये च पूर्ववद्विधिपूर्वकम् । दक्षां दक्षायिकां चैव चण्डां चण्डायिकां तथा ॥ हरां हरायिकां चैव शौण्डां शौण्डायिकां तथा । प्रथमां प्रथमायिकां मन्मथां मन्मथायिकाम् ॥ भीमां भीमायिकां चैव शकुनिं शकुनायिकाम् । सुमतिं च सुमत्यर्यां गोपीं गोपायिकां तथा ॥ अथ नन्दं च नन्दार्यीं पितामहमतः परम् । पितामहायां पूर्वायां त्विांधेवत्स्थाप्य पूजयेत् ॥ एवं सम्पूज्य विधिना तृतीयावरणं शुभम् । सौभद्रव्यूहमासाद्य प्रथमावरणे क्रमात् ॥ प्रागाद्यं स्थाप्य विधिना शक्त्यष्टकमनुक्रमात् । द्वितीयावरणे चैव प्रागाद्यं शृणु शक्तयः ॥ षोड

३५६ वीरमित्रोदयस्य राजनीतिप्रकाशे सौभद्रं कथितं व्यूहं भद्रव्यूहं शृणुष्व मे ॥ ऐन्द्री हुताशनी याम्या नैर्ऋती वारुणी तथा । वायव्या चैव कौबेरी ऐशानी चाष्टशक्तयः ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । हरिणी च सुवर्णा च काञ्चनी हाटकी तथा ॥ रुक्मिणी चं नमस्या च सुभगा जम्बुनायिका । वाग्भवा वाक्पथा वाणी भीमा चित्ररथा सुधीः ॥ वेदमाता हिरण्याक्षी द्वितीयावरणे स्मृताः । भद्राख्यं कथितं व्यूहं कनकाख्यं शृणुष्व मे ॥ वज्रं शक्तिश्च दण्डश्च खड्गं पाशो ध्वजस्तथा । गदा त्रिशूलं क्रमशः प्रथमावरणे स्मृताः ॥ बुद्धा प्रबुद्धा चण्डा च मुण्डा चैव कपालिनी । मृत्युहन्त्री विरूपाक्षी कपर्दी कमलासना ॥ दंष्ट्रिणी रङ्गिणी चैव लम्बाक्षी कङ्कभूषणी । सम्भवा शाङ्गिणी चैव षोडशैताः प्रकीर्तिताः ॥ कथितं कनकव्यूहमम्बिकाख्यं शृणुष्व मे । खेचरी सर्वनामा च शमनी ब्रह्मरूपिणी ॥ चलिनी बलनामा च महिमाऽमृतलालसा । प्रथमावरणे चाष्टौ शक्तयः सर्वसम्मताः । शङ्खिनी शिखरा देवी मृदुरत्ना सुशीतला ॥ छाया भूतधनी धन्या इन्द्रमाता च वैष्णवी । तृष्णा रागवती मोहा कामकोपा मदोत्कटा ॥ इन्द्रा च वधिरा देवी षोडशैताः प्रकीर्त्तिताः । कथितं चाम्बिकाव्यूहं श्रीव्यूहं शृणु सुव्रत ॥ १ सत्यभामा चेत्यपि पाठः । २ भाविनी इत्यपि पाठः

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३५७ स्पर्शा स्पर्शवती गन्धा प्राणापानसमानका । उदाना व्याननामा च प्रथमावरणे स्मृताः ॥ तमोहता प्रभा मोघा तेजनी दहनी तथा । भीमास्या ज्वालिनी शेषा शोषिणी रुद्रनायिका ॥ वीरभद्रा गणाध्यक्षा चन्द्राहासा च गह्वरा । गणमाताऽम्बिका चैव शक्तयः सर्वसम्मताः ॥ द्वितीयावरण प्रोक्ताः षोडशैव यथाक्रमात् । श्रीव्यूहं कथितं भद्रं वागीशं शृणु सुव्रत ॥ धारा वारिधरा चैव वाहिकी वायसी तथा । मर्त्यातीता महामाया वज्रिणी कामधेनुका ॥ प्रथमावरणेऽप्येवं शक्तयोऽष्टौ प्रकीर्त्तिताः । पयोष्णी वारुणी शान्ता जयन्ती च वरप्रदा ॥ प्लाविनी जलमाता च पयोमाता महाम्बिका । रक्ता कराली चण्डाक्षी महोच्छुष्मा पयस्विनी ॥ माया विघ्नेश्वरी काली कालिका च यथाक्रमम् । षोडशैव समाख्याताः शक्तयः सर्वसम्मताः ॥ व्यूहं वागीश्वरं प्रोक्तं गोमुखं व्यूहमुच्यते । शङ्खिनी हलिनी चैव लम्बकर्णा च कल्किनी ॥ यक्षिणी मालिनी चैव वमनी वरमानिनी । प्रथमावरणे चैव शक्तयोऽष्टौ प्रकीर्तिताः ॥ चण्डा घण्टा महानादा सुमुखी दुर्मुखी बला । रेवती प्रथमा घोरा सौम्या लीना महाबला ॥ जया च विजया चैव अजिता चापराजिता । द्वितीयावरणे चैताः शक्तयः षोडशैव तु ॥ १ सैन्या इति पाठः ।

३५८ वीरमित्रोदयस्य राजनीतिप्रकाशे कथितं गोमुखं व्यूहं भद्रकर्णीं शृणुष्व मे । महाघण्टा विरूपाक्षी शुष्काभाकाशमातृका ॥ संहारी जातहारी च दंष्ट्राली शुष्करेवती । प्रथमावरणे चाष्टौ शक्तयः परिकीर्त्तिताः ॥ पिपीलिका पुष्पहारी अशनी सर्वहारिणी । भद्रहारी शुभाचारी हेमा योगेश्वरी तथा ॥ चित्रा भानुमती छिद्रा सैंहिकी सुरभी यमा । सर्वानन्दा खगाख्या च शक्तयः षोडशैव तु ॥ महाव्यूहाष्टकं प्रोक्तमुपव्यूहाष्टकं शृणु । अणिमाव्यूहमावेष्ट्य प्रथमावरणे क्रमात् ॥ ऐन्द्री च चित्रभानुश्च वारुणी दण्डिरेव च । प्राणरूपी तथा हंसः स्वात्मशक्तिः पितामहः ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । केशवो भगवान् रुद्रश्चन्द्रमा भास्करस्तथा ॥ ईश्वरश्च तथा ह्यात्मा ह्यन्तरात्मा महेश्वरः । परमात्मा ह्यणुर्जीवः पिङ्गलः पुरुषः पशुः ॥ भोक्ता च भूपतिर्भावो द्वितीयावरणे स्मृताः । कथितं चाणिमाव्यूहं लघिमाख्यं वदामि ते ॥ श्रीकैण्ठः श्रीधरः श्रीशः सत्यकश्च तथा वरः । अमरेशः स्थितीशश्च भारभूतस्तथाष्टमः ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । १ महाजया इत्यपि पाठः । २ सर्वभव्या च वेगाख्या इत्यपि पाठः । ३ श्रीकण्ठोऽन्तश्च सूक्ष्मश्च त्रिमूर्तिः शशकस्तथा । इत्यपि पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकाविधिः। ३५९ स्थाणुर्हरश्च चण्डेशो भूतीशः सुरपुङ्गवः ॥ सद्योजातो गुहेशश्च सूरसेनः सुरेश्वरः । क्रोधीशश्च तथा चण्डः प्रचण्डः शिव एव च ॥ एकरुद्रस्तथा कूर्चस्त्वेकनेत्रश्चतुर्मुखः । द्वितीयावरणे रुद्रा षोडशैव प्रकीर्त्तिताः ॥ कथितं लघिमाव्यूहं महिमां शृणु सुव्रत । अजेशः क्षेमरुद्रश्च सोमेशो लाङ्गली तथा ॥ चण्डारुश्चार्द्धनारीश एकान्तश्चान्त एव च । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ शिखीशः शकलश्चण्डो द्विरण्डः कल एव च । पाली भुजङ्गनामा च पिनाकी खड्गिरेव च ॥ काम ईशस्तथा श्वेतो भृगुः षोडश वै स्मृताः । कथितं महिमाव्यूहं प्राप्तिव्यूहं शृणुष्व मे ॥ संवर्त्तो लकुलीशश्च वाडवो हस्तिरेव च । चण्डयक्षो गणपतिर्महाभृगुरजोऽष्टमः ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । त्रिविक्रमो महाजिह्वो ध्वाँङ्क्षः श्रीभद्र एव च ॥ महादेवो दधीचश्च कुमारश्च परावरः । महादंष्ट्रः करालश्च सूचकश्च सुवर्धनः ॥ महाध्वाङ्क्षो महानन्दी गॅण्डो गोपालकस्तथा । १ इदमर्धं मु० लिं० पु० नास्ति । २ इदमप्यर्धं नास्ति । ३ ऋक्ष इति च पाठः । ४ दण्डी इति च पाठः ।

३६० वीरमित्रोदयस्य राजनीतिप्रकाशे प्राप्तिव्यूहं समाख्यातं प्राकाम्यं शृणु सुव्रत ॥ पुष्पदन्तो महानन्दो विपुलानन्दकारकः । शुल्को विडालः कमलो बिल्वश्चारुण एव च ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । रतिप्रियः सुरेशानश्चित्राङ्गश्च सुदुर्जयः ॥ विनायकः क्षेत्रपालो महामोहश्च जाङ्गलः । वत्सपुत्रो महापुत्रो ग्रामदेशाधिपौ तथा ॥ सर्वस्थानाधिपो देवो मेघनादः प्रचण्डकः । कालदूतश्च कथितो द्वितीयावरणं स्मृतम् ॥ प्राकाम्यं कथितं व्यूहमैश्वर्यं कथयामि ते । मङ्गला चर्चिका चैव योगीशा वरदायिका ॥ भासुरा सुरमाता च सुन्दरी मातृकाष्टमी । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ गणाधिपश्च मन्त्रज्ञो वामदेवः षडाननः । विदग्धश्च विचित्रश्च अमोघो मोघ एव च । अंश्वो भद्रश्च सोमेशश्चोत्तमोदुम्बरस्तथा ॥ नारसिंहश्च विजयस्तथा इन्द्रग्रहः प्रभुः । अपांपतिश्च विधिना द्वितीयावरणं स्मृतम् ॥ ऐश्वर्यं कथितं व्यूहं वशित्वं कथयाम्यतः । गगनो भुवनश्चैव विजयो ह्यजयस्तथा ॥ महाजयस्तथाङ्गारो व्यङ्गारश्च महायशाः । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ १ शुक्लो विशाल इत्यपि पाठः । २ अश्वी रुद्रश्च इत्यपि पाठः ।

महोर्पः प्रचण्डेशो महावर्णो महासुरः । महारोमा महागर्भः प्रथमः कनकस्तथा ॥ खरजो गरुडश्चैव मेघनादोऽथ गर्भकः । गजत्वक्च्छेदको बाहुस्त्रिशिखो मारिरेव च ॥ वशित्वं कथितं व्यूहं शृणु कामावसायिकम् । विनादो विकटश्चैव वसन्तो ऽभय एव च ॥ विद्युन्महाबलश्चैव कमलो दमनस्तथा । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ धर्मश्चातिबलः सर्पो महाकायो महाहनुः । सबलश्चैव भस्माङ्गी दुर्जयो दुरतिक्रमः ॥ वेतालो रौरवश्चैव दुर्द्धराभोग एव च । वज्रः कालाग्निरुद्रश्च सिंहैनादो महागुहः ॥ द्वितीयावरणं प्रोक्तं व्यूहं कामावसायिकम् । कथितं षोडशव्यूहं द्वितीयावरणं शृणु ॥ द्वितीयावरणे चैव दक्षव्यूहे च शक्तयः । प्रथमावरणे चाष्टौ बाह्ये षोडश एव च ॥ मनोहरा महानादा चित्रा चित्ररथा तथा । रोहिणी चैव चित्राङ्गी चित्ररेखा विचित्रिका ॥ प्रथमावरणे प्रोक्ता द्वितीयावरणे शृणु । चित्रा विचित्ररूपा च शुभदा कामदा शुभा ॥ क्रूरा च पिङ्गला देवी खड्गिका लम्बिका सती । दंष्ट्राली राक्षसी ध्वंसी लोलुपा लोहितामुखी ॥ १ सुन्दरश्च इत्यपि पाठः । २ गजश्च च्छेदको बाहुरिति च पाठः । ३ सद्योनाद इत्यपि पाठः । ४६

३६२ वीरमित्रोदयस्य राजनीतिप्रकाशे द्वितीयावरणे प्रोक्ताः षोडशैव समासतः । दक्षव्यूहं समाख्यातं दाक्षव्यूहं शृणुष्व मे ॥ सर्वाशिनी विश्वरूपा लम्पटा चामिषप्रिया । लम्बोष्ठी दीर्घदंष्ट्रा च लम्बजानुः प्रहारिणी ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । गजकर्णाश्वकर्णा च महाकाली सुभीषणा ॥ वातवेगरवा घोरा घना घनरवा तथा । घोरघोषा महाघण्टा सुघण्टा घण्टिका तथा ॥ घण्टेश्वरी महाघोरा घोरा चैवातिघोरिका । द्वितीयावरणे चैव षोडशैव प्रकीर्त्तिताः ॥ दाक्षव्यूहं समाख्यातं चण्डाव्यूहं शृणुष्व मे । अतिघण्टातिघोरा च कराला करका तथा ॥ विभूतिर्भोगदा कान्तिः शङ्खिनी चाष्टमी स्मृता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ पत्रिणी चैव गान्धारी योगमाता सुपीवरा । उत्तालकोत्सुका वीरा संहारी रमणी तथा ॥ फलहारी जीवहारी स्वेच्छाहारी च तुण्डिका । रेवती रङ्गिणी सङ्गा द्वितीये षोडशैव तु ॥ चण्डाव्यूहं समाख्यातं चण्डायीव्यूहमुच्यते । चण्डी चण्डमुखी चण्डा चण्डवेगा महारवा ॥ भ्रुकुटी चण्डरूपा च चण्डभ्रूश्चाष्टमी स्मृता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ चण्डघ्राणा चला चैव चलजिह्वा चलेश्वरी ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६३ चलवेगा महाकाया महामाया च विश्रुता ॥ कङ्काली च कृशाङ्गी च किंशुका चण्डघोषिका । महाहासा महारावा चण्डभाऽनङ्गचण्डिका ॥ चण्डायाः कथितं व्यूहं हरव्यूहं शृणुष्व मे । चण्डाक्षी कामदा देवी शूकरी कुक्कुटानना ॥ गान्धारी दुन्दुभिर्दुर्गा सौमित्रा चाष्टमी स्मृता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ अमृतोद्भवा महालक्ष्मीर्वर्णदा जीवरक्षिणी । हरिणी क्षीणजीवा च चन्द्रवक्त्रा चतुर्भुजा ॥ व्योमचारी व्योमरूपा व्योमव्यापी शुभोदया । गृहचारी सुचारी च विषाहारी विषान्तिका ॥ हरव्यूहं समाख्यातं हरायीव्यूहमुच्यते । जम्भाऽच्युता च कङ्कारी देविका दुर्धरावहा ॥ चण्डिका चपला चेति प्रथमावरणे स्मृताः । चण्डिका चामरी चैव भण्डिका च शुभानना ॥ पिण्डिनी मुण्डिनी मुण्डा डाकिनी शार्ङ्गरी तथा । कर्त्तरी हर्त्तरी चैव भामिनी यज्ञदायिनी ॥ यमदंष्ट्रा महादंष्ट्रा कराला चेति शक्तयः । हराय्याः कथितं व्यूहं शौण्डान्यूहं शृणुष्व मे ॥ विकराली कराली च कालजङ्घा यशस्विनी । वेगा वेगवती विद्या वेदाङ्गा चाष्ट शक्तयः ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । वज्रा शङ्खवती शङ्खा बला चैकबला तथा ॥


१ अत्र लिङ्गपुराणे-“वज्रा शङ्खातिशङ्खा वा बला चैवाबला

१६४ वीरमित्रोदयस्य राजनीतिप्रकाशे बला चातिबला लोला कुम्भिनी स्तम्भिनी तथा । अञ्जनी मोहनी माया विकटाङ्गी नली तथा । शौण्डाव्यूहं समाख्यातं शौण्डायीन्यूहमुच्यते । दन्तुरा रौद्रभागा च अमृता सुकुला तथा ॥ चलजिह्वार्धनेत्रा च रूपिणी दारिका तथा । प्रथमावरणस्यैता द्वितीयावरणे शृणु ॥ खादका रूपनाशा च संहारी चाक्षयान्तका । कण्डनी पेषणी चैव महाग्रासा कृतान्तिका ॥ दण्डिनी किङ्करी बिम्बा वर्णिनी चापलाङ्गिनी । विद्राणी द्राविणी चेति शक्तयः षोडशैव तु ॥ कथितं हि मनोरम्यं शौण्डायीव्यूहमुत्तमम् । प्रथमाख्यं प्रवक्ष्यामि व्यूहं रम्यं सुशोभनम् ॥ प्लवनी प्लावनी शोभा मन्दा चैव मदोत्कटा । मदाक्षया महादेवी प्रथमावरणे स्मृताः ॥ कामसन्दीchart? NO -> कामसन्दीchart: कामसन्दी पनी देवी अतिरूपा मनोहरा । महावशा मदग्राहा विह्वला मदविह्वला ॥ अरुणा घोषणी दिव्या रेवती भाण्डनायिका । स्तम्भनी घोररक्ताक्षी घोररूपा सुघोषणा ॥ व्यूहं तु प्रथमाख्यं ते स्वायम्भुव यथा तथा । कथितं प्रथमायाख्यं प्रवक्ष्यामि शृणुष्व मे ॥ घोरा घोरतरा घोरा अतिघोररायनायिका ॥ धावनी क्रोष्टुकी मुण्डा चाष्टमी परिकीर्त्तिता । तथा । अञ्जनी मोहनी माया विकटाङ्गी नली तथा ॥ गण्डकी दण्ड- की घोणा शोणा सत्यवती तथा । कल्लोला चेति क्रमशः षोडशैव यथाविधि ॥” इति पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६५

प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । भीमा भीमतराऽभीमा शस्त्री चैव सुवर्चला ॥ स्तम्भनी मोहनी रौद्री रुद्रवत्यचलाचला । महाबला महाशान्तिः शिवाशीला शिवाशिवा । बृहत्कुक्षी बृहन्नासा षोडशैव प्रकीर्त्तिताः ॥ प्रथमायी समाख्याता मन्मथाख्यं वदामि ते । कालकर्णी कराला च कल्याणी कपिला शिवा ॥ इष्टिसुष्टिः प्रतिष्ठा च प्रथमावरणे स्मृताः । शान्तिः पुष्टिकरी तुष्टिर्ज्ञेया चैव श्रुतिर्धृतिः ॥ कामदा सुभगा सौम्या तेजनी कामतन्त्रिका । धार्मिकी धर्मिणी शीला पापहा धर्मवर्द्धनी ॥ मान्मथं कथितं व्यूहं मान्मथायिकमुच्यते । धर्मरक्षा निवाता च धर्माधर्मवती तथा ॥ सुमतिदुर्मतिर्मेधा विमला चाष्टमी स्मृता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ शुद्धिर्बुद्धिर्मतिः कान्तिर्वर्तुला मोहावर्द्धनी । बला चातिबला भीमा प्राणवृद्धिकरी तथा ॥ निर्लज्जा निर्घृणा मन्दा सर्वपापक्षयङ्करी । कपिला चातिविधुरा षोडशैताः प्रकीर्त्तिताः ॥ मान्मथायिकमुक्तं ते भीमाव्यूहं वदामि ते । रक्ता चैव विरक्ता च उद्वेगा शोकवर्द्धनी ॥ कामा तृष्णा क्षुधा मोहा चाष्टमी परिकीर्त्तिता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ जया निद्राऽभयालस्या सुतृष्णा रोदनी दरा । कृष्णाकृष्णाङ्गिनी वृद्धा शुद्धोच्छिष्टाशनी वृषा ॥

३६६ वीरमित्रोदयस्य राजनीतिप्रकाशे कामदा भोगिनी दग्धा दुःखदा सुखदा तथा । भीमाव्यूहं मया प्रोक्तं भीमायणीव्यूहमुच्यते ॥ आनन्दा च सुनन्दा च महानन्दा शुभङ्करी । वीतरागा महोत्साहा जितरागा मनोरमा ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । मनोन्मनी मनःक्षोभा मदोन्मादा मदाकुला ॥ मदोद्गर्भा मदारामा कामानन्दा सुविह्वला । महावेगा सुवेगा च महाभोगा क्षयावहा ॥ क्रमणी क्रामिणी चक्रा द्वितीयावरणे स्मृताः । कथितं तव भीमायणीव्यूहं परमशोभनम् ॥ शाकुनं कथाम्यद्य व्यूहं परमशोभनम् । योगावेगा सुवेगा च अतिवेगा सुवासिनी ॥ देवी मनोरथावेगा रुद्रावर्तवती मतिः । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ रोधनी क्षोभणी बाला चातिघोषा सुघोषिणी । विद्युता त्रासनी देवी मनोवेगा च चापला ॥ विद्युज्जिह्वा महाजिह्वा भ्रुकुटीकुटिलानना । स्फुरज्ज्वाला महाज्वाला सुज्वाला च क्षयान्तिका । शाकुनं कथितं व्यूहं शाकुनार्थी शृणुष्व मे । ज्वालिनी चैव भस्माङ्गी तथा भस्मान्तकान्तका ॥ भाविनी च प्रजा विद्या ख्यातिश्चैवाष्टमी स्मृता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ उल्लेखा च पताका च भोगा भोगवती खगा । योगव्रता योगमाता योगाख्या योगपारगा । १ जलावर्ता च धीमती इत्यपि पाठः ।