वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 355, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकाविधिः। ३५९ स्थाणुर्हरश्च चण्डेशो भूतीशः सुरपुङ्गवः ॥ सद्योजातो गुहेशश्च सूरसेनः सुरेश्वरः । क्रोधीशश्च तथा चण्डः प्रचण्डः शिव एव च ॥ एकरुद्रस्तथा कूर्चस्त्वेकनेत्रश्चतुर्मुखः । द्वितीयावरणे रुद्रा षोडशैव प्रकीर्त्तिताः ॥ कथितं लघिमाव्यूहं महिमां शृणु सुव्रत । अजेशः क्षेमरुद्रश्च सोमेशो लाङ्गली तथा ॥ चण्डारुश्चार्द्धनारीश एकान्तश्चान्त एव च । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ शिखीशः शकलश्चण्डो द्विरण्डः कल एव च । पाली भुजङ्गनामा च पिनाकी खड्गिरेव च ॥ काम ईशस्तथा श्वेतो भृगुः षोडश वै स्मृताः । कथितं महिमाव्यूहं प्राप्तिव्यूहं शृणुष्व मे ॥ संवर्त्तो लकुलीशश्च वाडवो हस्तिरेव च । चण्डयक्षो गणपतिर्महाभृगुरजोऽष्टमः ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । त्रिविक्रमो महाजिह्वो ध्वाँङ्क्षः श्रीभद्र एव च ॥ महादेवो दधीचश्च कुमारश्च परावरः । महादंष्ट्रः करालश्च सूचकश्च सुवर्धनः ॥ महाध्वाङ्क्षो महानन्दी गॅण्डो गोपालकस्तथा । १ इदमर्धं मु० लिं० पु० नास्ति । २ इदमप्यर्धं नास्ति । ३ ऋक्ष इति च पाठः । ४ दण्डी इति च पाठः ।