वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 356, कुल 490 में से
संदर्भ में पढ़ें३६० वीरमित्रोदयस्य राजनीतिप्रकाशे प्राप्तिव्यूहं समाख्यातं प्राकाम्यं शृणु सुव्रत ॥ पुष्पदन्तो महानन्दो विपुलानन्दकारकः । शुल्को विडालः कमलो बिल्वश्चारुण एव च ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । रतिप्रियः सुरेशानश्चित्राङ्गश्च सुदुर्जयः ॥ विनायकः क्षेत्रपालो महामोहश्च जाङ्गलः । वत्सपुत्रो महापुत्रो ग्रामदेशाधिपौ तथा ॥ सर्वस्थानाधिपो देवो मेघनादः प्रचण्डकः । कालदूतश्च कथितो द्वितीयावरणं स्मृतम् ॥ प्राकाम्यं कथितं व्यूहमैश्वर्यं कथयामि ते । मङ्गला चर्चिका चैव योगीशा वरदायिका ॥ भासुरा सुरमाता च सुन्दरी मातृकाष्टमी । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ गणाधिपश्च मन्त्रज्ञो वामदेवः षडाननः । विदग्धश्च विचित्रश्च अमोघो मोघ एव च । अंश्वो भद्रश्च सोमेशश्चोत्तमोदुम्बरस्तथा ॥ नारसिंहश्च विजयस्तथा इन्द्रग्रहः प्रभुः । अपांपतिश्च विधिना द्वितीयावरणं स्मृतम् ॥ ऐश्वर्यं कथितं व्यूहं वशित्वं कथयाम्यतः । गगनो भुवनश्चैव विजयो ह्यजयस्तथा ॥ महाजयस्तथाङ्गारो व्यङ्गारश्च महायशाः । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ १ शुक्लो विशाल इत्यपि पाठः । २ अश्वी रुद्रश्च इत्यपि पाठः ।