भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६७ ऋद्धिर्बुद्धिर्धृतिः कान्तिः स्मृतिः साक्षाच्छुतिर्धरा ॥ शाकुनाय्या महाव्यूहं कथितं कामदायकम् । स्वायम्भुव तथा व्यूहं सुमताख्यं सुशोभनम् ॥ परेष्टा च परादित्या ह्यमृता फलनाशिनी । हरिणाक्षी सुवर्णाक्षी देवी साक्षात्कपिञ्जला ॥ कामरेखा च कथितं प्रथमावरणं शुभम् । रत्नदीपा वसुदीपा रत्नदा रत्नमालिनी ॥ रत्नशोभा सुशोभा च महाशोभा महाद्युतिः । शवरी शाम्बरी ग्रन्थिपादकर्णकरानना ॥ हयग्रीवा च जिह्वा च सर्वग्रासेतिशक्तयः । कथितं सुमतव्यूहं सुमत्या व्यूहमुच्यते ॥ सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा । स्फुलिङ्गा विस्फुलिङ्गा च कृतान्ता भास्करानना ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । रागा रागवती क्रोधा महाक्रोधा च रौरवा ॥ क्रोधनी मृदनी चै व कलहा कलहावती । कलान्तिका चतुर्भेदा दुर्गा वै दुर्गमानगा ॥ नाली कुनाली सौम्या च इत्येवं कथितं मया । गोपाव्यूहं वदाम्यद्य शृणु स्वायम्भुवाखिलम् ॥ पाटली पाटवी चैव पाटी विटिपिटा तथा । कङ्कटा सुघटा चैव प्रघटा च घटोद्भवा ॥ प्रथमावरणं चात्र गोपायाः कथितं मया । नादाक्षी नादरूपा च सर्वकारागमागमा ॥ अग्रचारी सुचारी च चण्डनाडी सुवाहिनी । सुयोगा च वियोगा च हंसाक्षी च विलासिनी ॥

३६८ वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वगा सुविरावा च बन्धनी चेति शक्तयः । गोपाव्यूहं मया ख्यातं गोपायीव्यूहमुच्यते ॥ भेदिनी छेदनी चैव सर्वकारी क्षुधाशनी । उच्छुष्मा चैव गान्धारी भश्माशी वडवानला ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । अन्ववज्वालिनी ज्वाला दीपाक्षामा तथैव च ॥ अन्तरिक्षा च हृल्लेखा हृद्रमा मायिकापरा । आमयासादिनी भिल्ली सह्यासह्या सरस्वती ॥ रुद्रशक्तिर्महाशक्तिर्महामोहा च रोदिनी । गोपाय्याः कथितं व्यूहं नन्दाव्यूहं वदामि ते ॥ नन्दिनी च निवृत्तिश्च प्रतिष्ठा च यथाक्रमम् । विद्यानाशी खग्रसनी चामुण्डा प्रियदर्शनी ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । गुह्या नारायणी मोहा प्रज्ञा देवी च वज्रिणी ॥ कङ्कटा च तथा काली शिवा घोषा ततः परम् । वीरा माया च कामेशी वहिनी भीषणी तथा ॥ स्वर्गा माला च निर्दिष्टा द्वितीयावरणे स्मृताः । नन्दाव्यूहं समाख्यातं नन्दायीव्यूहमुच्यते ॥ विनायकी पूर्णिमा च रङ्गिणी कूर्दनी तथा । इच्छा कपालिनी चैव दीपनी च जयन्तिका ॥ प्रथमावरणे चाष्टौ शक्तयः परिकीर्त्तिताः । पावनी चाम्बिका चैव सर्वाशा पूतना तथा ॥ छागली मोदिनी साक्षाद्देवी लम्बोदरी शुभा । संहारी कालिनी चैव कुसुमा च यथाक्रमम् ॥ १ रङ्कारी कुण्डली तथा इत्यपि पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३६९ शुक्रा तारा तथाज्ञाना क्रिया गायत्रिका तथा । सावित्री चेति विधिना द्वितीयावरणे स्मृताः ॥ नन्दायाः कथितं व्यूहं पैतामहमतः शृणु । दन्तुरी चैव फेत्कारी क्रोधहासा षडङ्गुला ॥ आनन्दा च सुदुर्गा च संहारी ह्यमृताष्टमी प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ कुलान्तिकाऽनला चैव प्रचण्डा मर्दनी शुभा । सर्वभूताभया चैव देवी च वडवामुखी ॥ लम्पटा पन्नगा देवी कुसुमा विपुलान्तिका । केदारा च तथा कूर्मा दुरिता मन्दरोदरी ॥ खड्गचण्डेति विधिना द्वितीयावरणं स्मृतम् । व्यूहं पैतामहं प्रोक्तं धर्मकामार्थमोक्षदम् ॥ पितामह्यार्यव्यूहं च शृणुष्व कथयामि ते । वज्रा च मन्मथा चोरा विकारा रिपुभेदिनी ॥ रूपा चतुर्भुजा योगा प्रथमावरणे स्मृताः । भूताभया महाबाला खर्प्परा च ततः परम् ॥ भस्मा कान्ता तथा सृष्टिर्द्विभुजा ब्रह्मरूपिणी । सद्यःफेत्कारिका नाम कर्णमोटी तथापरा ॥ महामोहा महामाया गान्धारी पुष्पमालिनी । शब्दायी च महाघोषा षोडशैतास्तथान्तिमे ॥ सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः । पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषणाः । सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः ॥ १ नन्दिनी इत्यपि पाठः । २ खड्गचक्रेत्यपि पाठः । ४७

३७० वीरमित्रोदयस्य राजनीतिप्रकाशे मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः । भूषिता हारकेयूरैर्गौरा ध्येयाः पृथक् पृथक् ॥ एवं सहस्रकलशं ताम्रजं मृन्मयं तु वा । पूर्वोक्त१दक्षिणायुक्तं रौद्रक्षेत्रे प्रतिष्ठितम् ॥ भवाद्यैर्विष्णुना प्रोक्तैर्नाम्नां चैव सहस्रकैः । सम्पूज्य विन्यसेदग्रे सेचयेद्वाणविग्रहम् ॥ अभिषिच्य च विज्ञाप्य सेचयेत्पृथिवीपतिम् । एवं सहस्रकलशं सद्यःसिद्धिफलप्रदम् ॥ चत्वारिंशन्महाव्यूहं सर्वलक्षणलक्षितम् । सर्वेषां कलशं प्रोक्तं पूर्ववद्धेमनिर्मितम् ॥ सर्वे गन्धोदकैः पूर्णास्तीर्थतोयसमन्विताः । तथा कनकसंयुक्ता देवस्य घृतपूरिताः ॥ क्षीरेण वाथ दध्ना वा पञ्चगव्येन वा पुनः । ब्रह्मकूर्चेन वा मेध्यमभिषेको विधीयते ॥ रुद्राध्यायेन रुद्रस्य नृपतेः शृणु सुव्रत ॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ मन्त्रेणानेन राजानं सेचयेदभिषेचितम् । होमं च मन्त्रेणानेन अघोरेणाघहारिणा ॥ प्रागाद्यं देवकुण्डे वा स्थण्डिले वा घृतादिभिः । समिदाज्यचरुं लाजशालिनीवारतण्डुलैः ॥ अष्टोत्तरशतं हुत्वा राजानमधिवासयेत् । पुण्याहं स्मस्ति२रित्याद्यैः कौतुकं हेमनिर्मितम् ॥ १ पूर्वोक्तलक्षणैर्युक्तमिति च पाठः । २ स्वस्तिरुद्राय इत्यपि पाठः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७१ भसितं च मृदो१ चैव बन्धयेद्दक्षिणे करे । त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्द्धनम् ॥ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् । मन्त्रेणानेन राजानं सेचयेद्वाथ होमयेत् ॥ सर्वद्रव्याभिषेकं च होमद्रव्यैर्यथाक्रमम् । प्रागाद्यं ब्रह्माभिः प्रोक्तं सर्वद्रव्यैर्यथाक्रमम् ॥ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ स्वाहान्तं पुरुषेणैवं प्राक्कुण्डे होमयेद्द्विजः । अघोरेण च याम्येऽथ होमयेत्कृष्णवाससा ॥ वामदेवाय नमोज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः । इत्याद्युक्तक्रमेणैव जुहुयात्पश्चिमे पुनः ॥ सद्येन पश्चिमे होमः सर्वद्रव्यैर्यथाक्रमम् । सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः । भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥ स्वाहान्तं जुहुयादग्नौ मन्त्रेणानेन बुद्धिमान् । आग्नेय्यां च विधानेन ऋचा रौद्रेण होमयेत् ॥ जातवेदसे सुनवामसोममित्यादि । नैर्ऋते च तथा द्रव्यैः सर्वैर्होमो विधीयते ॥ मन्त्रेणानेन दिव्येन सर्वसिद्धिकरेण च । निशि निशि जय स्वाहा खड्ग राक्षसभेदन ॥ रुधिराज्यार्द्रनैर्ऋत्यै स्वाहा नमः स्वधा नमः । यथेदं विधिना द्रव्यैर्मन्त्रेणानेन होमयेत् ॥ १ मृणालेन इत्यपि पाठः ।

३७२ वीरमित्रोदयस्य राजनीतिप्रकाशे याम्यां१यां विविधैर्द्रव्यैरीशानेन द्विजोत्तमः । समीर समीर स्वाहा स्वधा नमः । ईशान्यामथ पूर्वोक्तैर्द्रव्यैर्होमं समाचरेत् । ॐईशानाय कद्रुद्राय रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय । तन्नो रुद्रः प्रचोदयात् ॥ प्रधानं पूर्ववद्द्रव्यैरीशाने च द्विजोत्तमः । प्रतिद्रव्यं सहस्रेण जुहुयान्नृपसन्निधौ ॥ स्वयं वा जुहुयादग्नौ पुरोहितमुखेन वा । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्र- ह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम् ॥ प्रायश्चित्तमघोरेण शेषं सामान्यमाचरेत् । कृताधिवासं राजानं शङ्खभेर्यादिनिःस्वनैः ॥ जयशब्दैर्दिव्यैर्वेदघोषैः सुशोभनैः । सेचयेत्कूर्चतोयेन मोक्षयेद्वा नृपोत्तमम् ॥ रुद्राध्यायेन विधिना रुद्रभस्मप्रभारुणम् । शलाकाशतसम्पन्नं छत्रं चन्द्रसमप्रभम् ॥ शिबिकां वैजयन्तीं च साधयेन्नृपतेः समम् । राज्याभिषेकयुक्ताय क्षत्रियायेश्वराय वा ॥ नृपचिह्नानि यान्येषां क्षत्रियाणां विधीयते । वेदीप्रमाणं सर्वेषां द्वादशाङ्गुलमुच्यते । पलाशोदुम्बराश्वत्थवटाः पूर्वादितः क्रमात् ॥ तोरणाद्यानि वै तत्र पट्टमात्रेण पट्टिका । अष्टमाङ्गुलसंयुक्तदर्भमालासमावृतम् ॥ १ यमयतीति यमः सर्वनियन्ता वायुस्तद्दिता याम्या वायव्येत्य- र्थः । तस्याम् ईशानेन तन्मन्त्रेणेत्यर्थः ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७३ दिग्ध्वजाष्टकसंयुक्तं द्वारकुम्भैः सुशोभिम् । हेमतोरणकुम्भैश्च भूषितं स्नापयेन्नृपम् ॥ चर्मोपरिसमासीनं शिवकुम्भेन सेचयेत् । तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ॥ तन्नः शिवः प्रचोदयात् । मन्त्रेणानेन विधिना वर्द्धन्या गौरीगीतया ॥ रुद्राध्यायेन वा सर्वमघोरेणापि वा पुनः । दिव्यैराभरणैः शुक्लैर्मुकुटाद्यैः सुकल्पितैः ॥ क्षौमैर्वस्त्रैश्च राजानं भूषयेन्नियतः शुभैः । अष्टषष्टिपलेनैव हैमं कृत्वा सुरद्रुमम् ॥ नवरत्नैरलङ्कृत्य दद्याद्वै दक्षिणां गुरोः । दश धेनूः सवस्त्राश्च दद्यात्क्षेत्रं सुशोभनम् ॥ शतद्रोणं तिलं चैव शतद्रोणं च तण्डुलान् । शयनं वाहनं छत्रं शय्यां सोपस्करां शुभाम् ॥ होतॄणां चैव सर्वेषां त्रिंशत्पलमुदाहृतम् । अध्येतॄणां तदर्द्धेन ब्राह्मानां च तदर्द्धतः ॥ महापूजां ततः कुर्यान्महादेवस्य वै नृपः । एवं समासतः प्रोक्तं जयसेचनमुत्तमम् ॥ एवं पुराभिषिक्तस्तु शक्रः शक्रत्वमागतः । ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ अम्बिका चाम्बिकात्वं च सौभाग्यमतुलं तथा । सावित्री च धरा लक्ष्मीर्देवी कात्यायनी तथा ॥ नन्दिना च पुरा मृत्यु रुद्राध्यायेन वै द्विज । अभिषिक्तोऽसुरैः पूर्वं तारकाख्यो महाबलः ॥ विद्युन्माली हिरण्याक्षो विष्णुना वै विनिर्जितः ।

३७४ वीरमित्रोदयस्य राजनीतिप्रकाशे नृसिंहेन पुरा दैत्यो हिरण्यकशिपुर्हतः ॥ स्कन्देन तारकाद्याश्च कौशिक्या च पुराम्बया । सुन्दोपसुन्दतनयौ जितौ देवेन्द्रपूजितौ ॥ वसुदेवसुदेवौ तु निहतौ कृतकाम्यया । पुरा स्नानविधानेन ब्रह्मणा निर्मितेन तु ॥ देवासुरे दितिसुता जिता देवैरनेकशः । स्नाप्यैवं सर्वभूपैश्च तथान्यैरपि भूसुरैः ॥ प्राप्ताश्च सिद्धयो दिव्या नात्र कार्या विचारणा । अहोऽभिषेकमाहात्म्यमहो सुष्ठु सुभाषितम् ॥ येनैवमभिषिक्तेन सिद्धैर्मृत्युर्जितास्त्विति । कल्पकोटिशतेनापि यत्पापं समुपार्जितम् ॥ स्नात्वैवं मुच्यते राजा सर्वपापान्न संशयः । व्याधितो मुच्यते राजा क्षयकुष्ठादिभिः पुनः ॥ नित्यं च विजयी भूत्वा पुत्रपौत्रादिभिर्वृतः । जनानुरागसम्पन्नो देवराज इवापरः ॥ मोदते पापहीनश्च क्रियाधर्मे च निष्ठया । उद्देशमात्रं कथितं फलं परमशोभनम् ॥ नृपाणामुपकाराय स्वायम्भुव मनो मया । इत्यादि । अयं च जयाभिषेकः त्रैवार्णिकेन नृपेणापमृत्युजयार्थं स- र्वशत्रुजयार्थं वैरिविशेषेण युद्धोपस्थितौ यात्रातः पूर्वं तज्जया- र्थं च कर्तव्यः । तत्र सम्भाराः । राजाभिषेककलशस्थाप- नार्थं नवकुण्डहोमार्थं च मण्डपः प्रपा कूटो वा । बहुस्तम्भः सभाकारः समशीर्षकसन्निवेशः प्रपा । सैव मध्योन्नता वंशा- वलम्बितपटलद्वयान्विता मण्डपः । स एव गिरिशृङ्गाकारो मध्ये समन्ततोऽवलम्बितचतुष्पटलः कूटः । ते च मण्डपादयः पञ्चस-

यात्रामकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७५ सप्तिहस्तायामविस्तारास्तावदर्थाद्भवन्ति । लिङ्गपुराणे, विधिना मण्डपं कृत्वा प्रपां वा कूटमेव च । नवधा स्थापयेद्वह्निं ब्राह्मणो वेदपारगः ॥ ततः सर्वाभिषेकार्थं सूत्रपातं च कारयेत् । इत्यभिधानात्, चकारेण मण्डपादिमध्य एव मण्डलरचना- प्रतीतेः, मण्डलरचनायाश्च सर्वतडागोत्सर्गादौ मण्डपप्रागपर- दक्षिणोत्तरसूत्रयोस्त्रिधाविभक्तयोर्मध्यमतृतीयभागाश्रितवेद्याधिक- रणकत्वदर्शनात् अत्रत्यमण्डलप्रकृतिपञ्चाशद्रेखानां च पदा- नां द्वादशाङ्गुलप्रमाणत्वोक्त्या प्रत्येकं तावदन्तरत्वात् । तथा च प्रत्येकद्वादशाङ्गुलान्तरालपञ्चाशद्रेखानिवर्त्यमण्डलसिद्ध्यर्थं शुक्लरक्तकृष्णतत्तत्परिधिरेखासिद्धयर्थं च वेदियोग्यः पञ्चविंश- तिहस्तस्तावन्मण्डपादिमध्यतृतीयभागोपेत इति मण्डपादेः पूर्वो- क्तपरिमाणसिद्धिः । ततश्च तदनुरूपा स्तम्भपरिमाणविवृद्धिः । पटलनिवेशनार्थं तिर्यक्काष्ठनिवेशनार्थं चार्थात्स्तम्भविवृद्धिरपि क- ल्प्या मण्डपकूटयोः । तत्र मध्यस्तम्भास्तावन्मण्डपविस्तारद- लोच्चा एव, प्रान्तस्तम्भाश्च पञ्चहस्ता एव, अन्यत्र तथादर्श- नात् । आर्थिकमध्यस्तम्भास्त्वार्थिकपरिमाणा एवेति दिक् । अस्मिंश्च मण्डपादौ प्रागपरदक्षिणोत्तरमध्यसूत्रत्रेधाविभागे- न नवभागे कृतेऽष्टसु दिग्भागेषु अष्टौ पूर्वेशान्यन्तराले चैकमिति नव कुण्डानि स्थण्डिलानि वा । तानि च तत्तदाकृतिकानि वर्ण- भेदेन चतुरस्रादीन्येव वा । मध्यमभागे च वेदिरायामतृतीयां- शोच्चा । तत्र च राजाभिषेककलशस्थापनार्थं मण्डलम् । तद्यथा- प्रागपरायताः प्रत्येकं द्वादशाङ्गुलान्तरालाः पञ्चाशद्रेखा लि- खित्वा तादृशीभिरेव दक्षिणोत्तराभिः पञ्चाशद्रेखाभिस्ता भेद-

३७६ वीरमित्रोदयस्य राजनीतिप्रकाशे

येत् । ततः प्रागपरायतासु दक्षिणोत्तरायतासु च रेखासु उपान्त्यरेखामारभ्य षड्रेखाः सङ्गृह्य सप्तमीं सप्तमीं रेखां परि- मार्जयेत् । तथा च प्रागपरायता अष्टौ तत्सम्भिन्नाश्च दक्षि- णोत्तरायता अष्टौ एवं षोडशान्तरा वीथ्यः सम्पद्यन्ते । ततश्च तन्मध्यवर्त्तिनः प्रत्येकं पञ्चविंशतिकोष्ठका एकोनपञ्चाशद्व्यूहा भवन्ति । तेषु मध्यगतं व्यूहनवकं परिमृज्याष्टदलं कमलं का- र्यम् । तत्समन्तान्नाभिवीथीमध्यस्थपद्मदलेषु परिशिष्टेषु च- त्वारिंशद्व्यूहेषु च प्रतिकोष्ठकमलानि । तत्र मध्यकोष्ठेषु मु- ख्याः शक्तयः सुभद्राद्या दाक्षाद्याश्च शिवस्य द्वितीयतृतीया- वरणयोः । तत्प्रथमावरणे तु वामादिमिथुनाष्टकं केसरदलेषु प्र- धानकमलस्य । मध्यमकोष्ठेभ्यो बहिरष्टकोष्ठकं प्रथमावरणं षोडशषोडशकोष्ठकं द्वितीयं प्रत्येकं शक्तीनाम् । तत्र नाभि- वीथ्यनन्तरबाह्यषोडशव्यूहसंलग्ना पिशाचवीथी । तत्संलग्ना चतुर्विंशतिव्यूहबाह्या महावीथीति । सर्वाणि च पद्मानि शालिनी- वारगोधूमाणुयवतण्डुलगौरसर्षपान्विततिलानामन्यतरेण धा- न्येन यथालाभं समुदितैर्वा कार्याणि । तत्र मध्यवर्त्तिनि नव- व्यूहाष्टदले शालयो द्रोणमिताः, तदर्धं तण्डुलाः, आढक- मितास्तिलाः, तदर्द्धं यवादयः । अन्येषु आढकमिताः शा- लयः, तदर्द्धं तण्डुलाः, तदर्धं यवतिलादयः । प्रधानकमलं च हस्तमात्रमष्टाङ्गुलप्रमाणसुवर्णकर्णिकं चतुरङ्गुलकेसरस्थानमव- शिष्टपत्रस्थानं कार्यम् । अन्यानि द्वादशाङ्गुलेषु कोष्ठेषु यथा- सम्भवम्। प्रधानकमलकेसराष्टकदलाष्टकचत्वारिंशद्व्यूहान्तर्गत- सहस्रपदेषु च स्थापनीयं षोडशाधिकं कलशसहस्रम् । तच्च द्वादशाङ्गुलायामोदरं षडङ्गुलवर्त्तितनाभिकं द्व्यङ्गुलोत्सेधचतुरङ्गु- लविस्तारकण्ठं द्व्यङ्गुलोत्सेधनिर्गमौष्ठं कार्यम् । प्रधानकमल-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकसम्भारः। ३७७ कर्णिकायां स्थापनीयश्चैकः । स चोदरादिषु पूर्वोक्तद्विगुण- परिमाणः । तन्तूनां परस्परान्तरालं यवमात्रं यथा स्या- तथा जालवद्वेष्टनीयश्च । तद्वामभागस्थाप्या करकापरपर्याया चैका वर्धनी । सर्वे चैते हैमा राजतास्ताम्रमया वा । सर्वेषां पूरणार्थं गन्धोदकं, तन्मध्ये च निक्षेप्याणि पञ्चरत्नानि कन- कशकलानि ब्रह्मकूर्चाश्च । साधारणानि च पञ्चपल्लवसप्त- मृदादीनि । शिवकुम्भोपरिस्थाप्यं चाग्नेयादिकोणेषु क्रमेण सितरक्तपीतकृष्णवर्णसिंहयुक्तं पूर्वादिक्षु सुवर्णवर्णगात्रयुतं सुवर्णादिमयं सिंहासनं, सर्वेषां प्रत्येकं वेष्टनार्थानि वस्त्रयुग्मानि, प्रच्छादनार्थानि च हैमानि रत्नचित्राणि कमलानि, शिवप्र- तिमा देवीप्रतिमा । तयोर्लक्षणमुक्तम्— मत्स्यपुराणे, पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनम् । कपालशूलखट्वाङ्गी चन्द्रमौलिः सदा शिवः ॥ अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम् । उमा विभर्ति हस्तेषु पूजिता त्रिदशैरपि ॥ इति । अष्टाधिकं सहस्रमन्यप्रतिमा । तत्र स्त्रीप्रतिमाः- सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः । पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषिताः ॥ सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः । मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः ॥ भूषिता हारकेयूरैर्यावद्धेव्यः पृथक्पृथक् । इतिलिङ्गपुराणोक्तलक्षणलक्षिताः कार्याः । पुम्प्रतिमाश्च रुद्ररूपाः । बाणलिङ्गं, तदभिषेकार्थं चान्यत्कलशसहस्रं ताम्रमयं ४८

३७८ वीरमित्रोदयस्य राजनीतिप्रकाशे

मृन्मयं वा पूर्वोक्तलक्षणलक्षितं हेमकमलाच्छादितं रुद्रक्षेत्रे स्थाप- नीयम् । रुद्रक्षेत्राभावे तदर्थमप्येको मण्डपः कार्यः । तत्कलश- पूरणार्थं घृतं क्षीरं दधि पञ्चगव्यं वा । घृतपलाशसमिदाज्यचरु- लाजशालिनीवारतण्डुलरूपाण्यष्टौ होमद्रव्याणि प्रतिकुण्डम् । घृतं लौकिकमाज्यं संस्कृतमिति भेदः । प्रतिकुण्डं होता ब्रह्मा चेति द्वौ द्वौ ब्राह्मणौ । तत्र याम्ये कृष्णवासा होता । ऐन्द्रेशान्यन्त- रालगते प्रधानकुण्डे आचार्यो नृपः पुरोहितो वा होता । द्वार- जापकाश्चाष्टौ । रुद्राभिषेककर्त्ता तु पुरोहित एव । अनुक्तान्य- कर्तृकेषु राजसम्बन्धिकार्येषु तस्यैव कर्तृत्वदर्शनात् । साहाय्या- र्थं चान्येऽपि यथासम्भवम् । हैमं मृणालभासितं कौतुकम् । द्वारदे- शात्पदमात्रे निखातैः पूर्वाक्रमेण पलाशोदुम्बराश्वत्थवटमयैर्हे- मकुम्भान्वितैस्तोरणैर्युक्तं दर्भमालासमावृतं द्वारदेशादौ निक्षि- प्ताष्टमङ्गलद्रव्यमावाहितदिग्गजाष्टकं द्वारकुम्भभूषितं राजाभिषे- कमण्डपं दशहस्तं कुर्यात् । तन्मध्ये वेदिकायां भद्रासनम्, अष्ट- मङ्गलानि च- इक्षवः स्तवराजं च निष्पावाजाजिधान्यकम् । विकारवच्च गोक्षीरं कुसुम्भकुसुमं तथा ॥ लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते ॥ इति मत्स्यपुराणोक्तानि । भद्रासनं च सौवर्णं रौप्यं ता- म्रमयं क्षीरिवृक्षजं वा माण्डलिकानन्तरजिन्महाराजानां क्रमे- णैकसपादसार्द्धहस्तोच्छ्रायं तावदायामं राजाभिषेकप्रकरणे विष्णुधर्मोत्तरोक्तं ग्राह्यम्, आकाङ्क्षितत्वादवान्तरसामान्येन च बुद्धिस्थत्वात् । राज्ञो धारणार्थमाहवनीयादिजं भस्म । श्वेत- च्छत्रशिविकावैजयन्तीशङ्खचामरभेर्यादीनि नृपचिह्नानि राज- भूषणानि च प्रभूतानि । अभिषेककाले च नानाविधानि वा-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३७९ द्यानि । दक्षिणाद्रव्याणि च यथा-अष्टषष्टिपलहेमनिर्मितो नव- रत्नमलङ्कृतः सुरद्रुमो, दशधेनुशतानि, सुशोभनं क्षेत्रं, शतद्रोण- मितास्तिलास्तण्डुलाश्च, सोपधानं शयनं, वाहनमश्वादि, यानं रथादि च गुरवे। परिमाणतो मूल्यतश्चैतदर्धमितानि सुरद्रुमादीनि सर्वाणि मिलितेभ्यः सर्वेभ्यो होतृभ्यः । तथैव तदर्द्धमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यः । तदर्धमितानि ब्रह्मभ्यः । अन्यब्राह्मणदीनानाथादिभ्यो भूयसी यथाशक्ति । ब्राह्मणभो- जनं च सहस्रावरं यथाशक्ति । महादेवमहापूजासामग्री राजो- पचारादि । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पलं च कुडवः प्रस्थ आढको द्रोण एव च ॥ धान्यमानेषु बोद्धव्याः क्रमशोडमी चतुर्गुणाः । इत्यसाधारणाः । साधारणाश्च मण्डपकाष्ठध्वजपताकादि तत्तद्देवतापूजासामग्री द्वारतोरणकलशादि कुण्डोपयोगीष्टकादि नवग्रहपीठतत्प्रतिमातन्पूजोपकरणादि मण्डपवास्तूपशमनसामग्री ब्राह्मणवरणसामग्र्यादिकाः सम्भारा उपकल्पनीयाः । अथ प्रयोगः । उपकल्पितपूर्वोक्तसमस्तोपकरणः सपत्नीको राजा मौहू- र्त्तिकेभ्योऽनन्तरसंलग्नदिनद्वयातिशुद्धिं विदित्वा पूर्वदिने पुरो- हितमाचार्यार्त्विगादीन्मौहूर्त्तिकादींश्च सन्निधाप्य रङ्गवल्लयादि- युक्ते शुचौ देशेऽन्तर्जानुकर उपविश्य इष्टदेवगुरुद्विजकुलज्येष्ठा- न्नत्वा तैरनुज्ञातः सदर्भपाणिराचम्य प्राणानायम्य तिथ्या- दि सङ्कीर्त्य अपमृत्युजयार्थं सर्वशत्रुजयार्थं शत्रुविशेषजयार्थं वा लिङ्गपुराणोक्तविधिना जयाभिषेकं सपत्नीकोऽहममुकवर्मा

३८० वीरमित्रोदयस्य राजनीतिप्रकाशे करिष्ये, तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिवाचनं मातृकापूजनाभ्युदयिकश्राद्धग्रहमण्डपवास्तूपशमनाचार्यादिव- रणानि च तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य, यथाविभवं षो- डशोपचारैर्गणपतिमभ्यर्च्य, यथास्वगृह्यं स्वस्तिवाचनमातृकापूज- नाभ्युदयिकश्राद्धानि विधाय, याज्ञवल्क्याद्युक्तप्रकारेण यथा- विभवं नवग्रहमखं च कृत्वा, वास्तुशान्त्यर्थमाचार्यब्रह्मत्विजः कृत्वा, मण्डपनैर्ऋत्यभागे कुण्डं निर्माय, एकाशीतिपदवास्तुम- ण्डलनिर्माणपुरःसरं मण्डपवास्तुशान्तिं विधाय, जयाभिषेकार्थं पुरोहितमाचार्यं ब्रह्माणमष्टसु कुण्डेषु प्रतिकुण्डं होता ब्रह्मा चे- ति द्वौ द्वौ ब्राह्मणान् वृणुयात् । तत्र— आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ इत्याचार्यवरणे मन्त्रः । यथा चतुर्मुखो ब्रह्मा सर्ववेदधरः प्रभुः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा द्विजपते भव ॥ इति ब्रह्मवरणे । अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया । सुप्रसन्नाः प्रकुर्वन्तु स्वकार्यं विधिपूर्वकम् ॥ इत्यन्येषांम् । सर्वांश्च प्रत्येकमभ्यर्च्य शाखानुसारेण यथा- विभवं मधुपर्केणार्हयेत् । द्वारजापकांश्च तत्तत्काले वरणार्थमु- पकल्पयेत् । यथासम्भवमन्यांश्च साहाय्यार्थम् । सर्वांश्च यथाविभवं वस्त्रालङ्कारादिभिः पूजयेत् । शिल्पिमौहूर्त्तिकादींश्च । तत आ- चार्यो यजमानेन सपत्नीकेन सब्राह्मणेन जलपूर्णकलशह- स्तेन भद्रं कर्णेभिरित्यादिमन्त्रघोषेण मण्डपप्रवेशे पश्चिमतः कृते मण्डपान्तः पश्चिमत उपविश्याचम्य प्राणानायम्य यजमाना-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८१

नुज्ञातो मण्डपदेवतास्थापनायाचार्यकर्म करिष्य इति सङ्कल्प्य, मण्डपान्तः सर्वतः सर्षपविकिरणेन “यदत्र संस्थितं भूतम्” इ- त्यादिभिर्भूतान्युत्सार्य आपोहिष्ठेत्यादिभिरब्लिङ्गैः शुची वो- हव्येत्यादिभिः शुद्धिलिङ्गैश्च मन्त्रैः सर्वतः कुशोदकेनाभ्युक्ष्य स- र्वसाधारणेन प्रकारेण पूर्वादिक्रमेण तोरणपूजां तत्रत्यकलश- स्थापनं पूर्वादिद्वाराग्नेयादिकोणगतकलशस्थापनं तत्रत्यदेव- तापूजां द्वारेषु च ऋग्वेदाद्यध्येतृब्राह्मणयुगलचतुष्टयवरणं य- थाविभवं तत्पूजां इन्द्रादिलोकपालदशकावाहनध्यानपूजनानि पताकाध्वजोच्छ्रायणानि माषभक्तबलिदानं च तत्तदुद्देशेन महाध्वजस्थापनं तत्र ब्रह्मपूजनं मण्डपस्तम्भवंशगतदेवतापू- जनं मण्डपपूर्वादिग्गतदेवतावाहनपूजनबलिदानानि च सम- न्त्रकं कुर्यात् । प्रतिष्ठाप्रकाशे उक्तत्वाद्विस्तरापत्तेश्च स प्र- कारो नोच्यते । ततो वेद्यां पूर्वोक्तप्रकारेण लिखिते राजा- भिषेककलशस्थापनार्थे मण्डले मध्यगते व्यूहनवके अवशिष्ट- चत्वारिंशद्व्यूहगतकोष्ठेषु च सर्वमण्डलानां सर्वतोभद्रप्र- कृतिकत्वात्तदुक्तप्रकारेण ब्रह्मादिमण्डलदेवतानामावाहनं यथा- विभवं तत्पूजनं ताभ्यश्च बलिदानं विधाय सर्वाणि पद्मानि प्रणवेनाम्भसाभ्युक्ष्य तेषु सर्वेषु प्रणवं विन्यस्य कुशानास्तीर्य प्रधानपद्ममध्ये पूर्वोक्तलक्षणं तन्तूनां परस्परान्तरालं यवमात्रं यथा स्यात्तथा जालान्तरवेष्टितं शिवकुम्भं संस्थाप्य तद्वाम- भागे करकसंज्ञां वर्धनीं स्थापयेत् । ततस्तस्यैव पद्मस्य केस- रेषु वामाद्यष्टशक्तीनां ततो दलेषु वामदेवाद्यष्टरुद्राणामुक्तल- क्षणाः कुम्भाः स्थाप्याः । ततः पञ्चविंशतिकोष्ठकचत्वारि- शद्व्यूहगतमध्यमध्यकोष्ठेषु सुभद्रादिचत्वारिंशद्व्यूहेश्वराणां तत्तत्संलग्नाष्टाष्टकोष्ठेषु तत्प्रथमावरणदेवतानां तत्तत्सं-

३८२ वीरमित्रोदयस्य राजनीतिप्रकाशे लग्नषोडशकोष्ठेषु तद्द्वितीयाद्यावरणदेवतानां कुम्भाः स्था- पनीयाः । सर्वे चैते “मही द्यौः” इत्यादिमन्त्रैर्भूमिस्पर्शादिपूर्वकं प्रसिद्धकलशस्थापनप्रकारेण पदार्थानुसमयेन स्थाप्याः । ततः सर्वेषु प्रणवेन गन्धोदकपूरणं मध्ये च पञ्चरत्नकनकशलकब्र- ह्मकूर्चानां साधारणानां च पञ्चपल्लवसप्तमृत्तिकादीनां प्रक्षेपः । बहिश्च चन्दनपुष्पमालाकण्ठवेष्टनसूत्रैरलङ्करणं वस्त्रयुग्मवेष्टनं हैमरत्नचित्रकमलप्रच्छादनं च प्रत्येकं पदार्थानुसमयेनैव स- सहायेनाचार्येण कार्यम् । ततः सिंहासनसहितानां सर्वप्रति- मानामग्न्युत्तारणं विधाय शिवकुम्भोपरि सिंहासनं स्थापयि- त्वा तस्याग्नेयादिकोणगतेषु सितरक्तहिरण्याभकृष्णवर्णेषु चतर्षु सिंहाकारेषु पादेषु धर्मज्ञानवैराग्यैश्वर्याणि प्रणवेनावाह्य तत्त- द्वर्णाकाराणि ध्यात्वा तस्यैव पूर्वादिदिग्गतेषु सुवर्णवर्णेषु चतुर्षु गात्रेषु अव्यक्तं नियतिं कालं कालीं च प्रणवेनैवावाह्य तत्तद्वर्णाकारान्ध्यात्वा सर्वान्प्रणवेनैव यथाविभवं सम्पूज्य सिंहासनमध्यगते कमले पद्मवस्त्रासने उक्तलक्षणां शिवप्रतिमां कमलमध्ये आधारशक्तिं तदुपरि कलां तदुपरि जगत्कारणं बिन्दुं तदुपरि नादं तदुपरि च प्रणवाख्यं जगद्गुरुं शिवं स्था- पयामीति भाषयन् प्रणवपूर्वया, तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयादितिशिवगायत्र्या स्थापयित्वा शिवपादमूले कर्णिकायां मनोन्मनीं मनोन्मनाख्यमहादेवं च “मनोन्मनाय देवाय मनोन्मन्यै नमो नम” इति मन्त्रेण स्थाप- येत् । एतासां देवतानां पूजनेऽप्येत एव मन्त्राः । वक्ष्यमाण- देवतानां तु प्रणवपूर्वैर्नमोऽन्तैश्चतुर्थ्यन्तैः स्वस्वनामभिरेव स्था- पनं पूजनं च । ततः प्रधानकमलकेसरेषु प्रागादिक्रमेण वामा, ज्येष्ठा, रौद्री, काली, कलाविकरणी, बला, बलप्रमथनी, सर्वभूत-

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८३ दमनी चेत्यष्टौ शक्तयः। ततस्तस्यैव दलेषु तेनैव क्रमेण वामदेवः, ज्येष्ठः, रुद्रः, कालः, कलाविकरणः, बलः, बलप्रमथनः, सर्वभूतदम- नश्चेत्यष्टौ रुद्राः स्थाप्याः। इदं च वामादिमिथुनाष्टकं प्रथमावर- णं शिवस्य। एवमग्रेऽपि प्रागादिक्रम एव द्रष्टव्यः। ततो नाभिवी- थ्यनन्तरबाह्यषोडशव्यूहमध्यमकोष्ठेषु सुभद्रादिकाः शिवस्य द्वि- तीयावरणदेवताः स्थाप्याः। तत्र पूर्वे सुभद्रा, आग्नेये भद्रा, द- क्षिणे कनका, नैर्ऋते अम्बिका, पश्चिमे श्रीदेवी, वायव्ये वागीशा, उत्तरे गोमुखी, ऐशाने भद्रकर्णी, पूर्वाग्नेयमध्ये अणिमा, आग्नेय- दक्षिणमध्ये लघिमा, दक्षिणनैर्ऋत्यमध्ये महिमा, नैर्ऋत्यपश्चि- ममध्ये प्राप्तिः, पश्चिमवायव्यमध्ये प्राकाम्यं, वायव्योत्तरमध्ये ऐश्वर्यम्, उत्तरेशानमध्ये वशित्वं, पूर्वेशानमध्ये कामावसायिका। पिशाचवीथ्यनन्तरबाह्यचतुर्विंशतिव्यूहमध्यमकोष्ठेषु प्रागादिक्र- मेण दाक्षाद्याः शिवस्य तृतीयावरणदेवताः स्थाप्याः। ता यथा- दक्षा, दक्षायिका, चण्डा, चण्डायिका, हरा, हरायिका, शौ- ण्डा, शौण्डायिका, प्रथमा, प्रथमायिका, मन्मथा, मन्म- थायिका, भीमा, भीमायिका, शकुनी, शकुनायिका, सुमती, सुमत्यायिका, गोपा, गोपायिका, नन्दा, नन्दायिका, पितामही, पितामहायिका २४ । ततः सुभद्रादिशिवद्वितीयावरणदेवतानां प्रथमद्वितीयावरणदेवतास्तत्कोष्ठबाह्याष्टबाह्यषोडशकोष्ठेषु स्था- प्याः । ता यथा-बिन्दुका, बिन्दुगर्भा, नादिनी, नादगर्भजा, शक्तिका, शक्तिगर्भा, परा, परापरा, सुभद्राप्रथमावरणम्१। चण्डा, चण्डमुखी, चण्डवेगा, मनोजवा, चण्डाक्षी, चण्डनिर्घोषा, भ्रुकुटी, चण्डनायिका, महोत्सवा, मनोध्यक्षा, मानसी, माननायिका, मनोहारी, मनोह्लादी, मनःप्रीतिः, मनेश्वरी १६ सुभद्राद्विती- यावरणम् १। ऐन्द्री, हौताशनी, याम्या, नैर्ऋती, वारुणी, वाय-

३८४ वीरमित्रोदयस्थ राजनीतिप्रकाशे व्या, कौबेरी, ऐशानी ८। भद्राप्रथमाप्र० २। हरिणी, सुवर्णा, काञ्च- नी, हाटकी, रुक्मिणी, वामनास्या सुभगा, जम्बुनायिका, वाग्भवा, वाक्पथा, वाणी, भीमा, चित्ररथा, सुधीः, वेदमाता, हिरण्याक्षी, १६ भद्राद्वि० २। वज्रं, शक्तिः, दण्डः, खड्गः, पाशः, ध्वजः, गदा, त्रिशूलम् ८ कनकाप्र० ३। बुद्धा, प्रबुद्धा, चण्डा, मुण्डा, बलिनी, कपालिनी, मृत्युहन्त्री, विरूपाक्षी, कपर्दी, कमलासना, दंष्ट्रि- णी, रङ्गिणी, लम्बाक्षी, कङ्कभूषणी, सम्भावा, भाविनी १६। कनकाद्वि० ३। खेचरी, आत्मनामा, भवानी, वह्निरूपिणी, बलिनी, वह्निनामा, महिमा, अमृतलालसा ८ अम्बिकाप्र०४। शङ्खिनी, शिखरा देवी, मृदुरवा, सुशीतला, छाया, भूतपनी, धन्या, इन्द्रमाता, वैष्णवी, तृष्णा, रागवती, मोहा, कामकोपा, मदोत्कटा, इन्द्रा, बधिरा १६ अम्बिकाद्वि०४। स्पर्शः, रसः, गन्धः, प्राणः, अपानः, समानः, उदानः, व्यानः ८ श्रीदेवीप्र० ५। तमोहता, प्रभा, अमोघा, तेजनी, दहनी, भीमास्या, ज्वालिनी, शोषा, शोषिणी, रुद्रनायिका, वीरभद्रा, गणाध्यक्षा, चन्द्रहासा, गहरा, गणमाता, अम्बिका १६ श्रीदेवीद्वि० ५। धारा, वारिधरा, वाहिकी, वायसी, मर्त्यातीता, महामाया, वज्रिणी, कामधेनुका ८ वागी- शाप्र०६। पयोष्णी, वारुणी शान्ता, जयन्ती, वरप्रदा, प्लाविनी, जलमाता, पयोमाता, महाम्बिका, रक्ता, कराली, चण्डाक्षी, महोच्छुष्मा पयस्विनी, महाविद्येश्वरी, काली, कालिका १६ वा- गीशाद्वि० ६। शङ्खिनी, ललिता, लम्बकर्णी, कालिकनी, यक्षिणी, मा- लिनी, वामनी, वरमानिनी ८ गोमुखीप्र०७। चण्डा, घण्टा, महानादा सुमुखी, दुर्मुखी, बला, रेवती, प्रथमा, घोरा, सौम्या, भीमा, महाबला, जया, विजया, अजिता, अपराजिता १६ गोमुखी द्वि० ७। महाघण्टा विरूपाक्षी शङ्खाक्षी काममातृका, संहारी,

४. चतुर्थ प्रकाश: विजय-प्राप्ति पर विजित-राष्ट्र धर्म, शान्ति-रक्षा व ग्रन्थ उपसंहार

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८५

जातहारी, दंष्ट्राली, शुष्करेवती ८ भद्रकर्णीप्र०। पिपीलिका, पुष्प- हारी, अशनी, सर्वहारिणी, भद्रहारी, शुभाचारी, हेमा, योगेश्वरी, चित्रा, भानुमती, छिद्रा, सैंहिकी, सुरभी, समा, सर्वभव्या, वेगाख्या १६ भद्रकर्णीद्वि० ८। ऐन्द्री, चित्रभानुः, वारुणी, दाण्डिः, प्राणरूपी, हंसः, स्वात्मशक्तिः, पितामहः ८ अणिमाप्र० । केशवः, रुद्रः, चन्द्रमाः, भास्करः, बाह्यात्मा, अन्तरात्मा, आत्मा, महेश्वरः, परमात्मा, अणुजीवः, पिङ्गलः, पुरुषः, पशुः, भोक्ता, भूतपतिः, भीमः १६। अणिमाद्वि० ९। श्रीकण्ठः, अन्तः, सूक्ष्मः, त्रिमूर्तिः, शशकः, अमरेशः, स्थितीशः, भारभूतः ८ लघिमाप्र०। स्थाणुः, हरः, चण्डेशः, भूतीशः, सद्योजातः, गुहेशः, क्रूर- सेनः, सुरेश्वरः, क्रोधीशः, चण्डः, प्रचण्डः, शिवः, एकरुद्रः, कूर्मः, एकनेत्रः, चतुर्मुखः १६ लघिमाद्वि० १०। अजेशः, क्षेमरुद्रः, सोमेशः, लाङ्गली, चण्डारुः, अर्धनारीशः, एकान्तः, अन्तः ८ म- हिमाप्र०। शिखीशः, शकलः, चण्डः, दिरण्डः, कलः, पाली, भुजङ्गः, पिनाकी, खड्गिः, कामः, ईशः, श्वेतः, भृगुः, महिमाद्वि० ११। संवर्त्तः, नकुलीशः, वाडवः, हस्तिः, चण्डयक्षः, गणपतिः, महाभृगुः, अजः ८ प्राप्तिप्र० । त्रिविक्रमः, महाजिह्वः, ध्वाङ्क्षः, श्रीभद्रः, महादेवः, दधीचः, कुमारः, परावरः, महादंष्ट्रः, करालः, सूचकः, सुवर्धनः, महाध्वाङ्क्षः, महानन्दी, गण्डी, गोपालकः १६ प्राप्तिद्वि० १२। पुष्पदन्तः, महानन्दः, विपुलानन्दकारकः, शुक्लः, विशालः, कमलः, बिल्वः, अरुणः ८ प्राकाम्यप्र० । रतिमित्रः, सुरेशनः, चित्राङ्गः, सुदुर्जयः, विनायकः, क्षेत्रपालः, महामोहः, जाङ्गलः, वत्सपुत्रः, महापुत्रः, ग्रामाधिपः, देशाधिपः, सर्वस्थानाधिपः, मेघनादः, प्रचण्डकः, कालदूतः १६ प्राका- म्यद्वि० १३। मङ्गला, चर्चिका, योगेशा, हरदायिका, भासुरा, ४९

३८६ वीरमित्रोदयस्य राजनीतिप्रकाशे सुरमाता, सुन्दरी, मातृका ८। ईशित्वप्र० । गणाधिपः, मन्त्रज्ञः, वरदेवः, षडाननः, विदग्धः, विचित्रः, अमोघः, मोघः, अश्वः, रुद्रः, सोमेशः, उत्तमोदुम्बरः, नारसिंहः, विजयः, इन्द्रगुहः, अपाम्प- तिः १६ ईशित्वद्वि० १४। गगनः, भवनः, विजयः, अजयः, महाजयः अङ्गारः, व्यङ्गारः, महायशाः ८ वशित्वप्र० । महाहर्षः, प्रचण्डेशः, महावर्णः, महासुरः, महारोमा, महागर्भः, प्रथमः, कनकः, खरजः, गरुडः, मेघनादः, गर्जकः, गजत्वक्छेदकः, वाहः, त्रिशिखः, मारिः १६ वशित्वद्वि० १५। विनादः, विकटः, वसन्तः, अ- भयः, विद्युत्, महाबलः, कमलः, दमनः ८ कामावसायिका- काप्र० । धर्मः, अतिबलः, सर्पः, महाकायः, महाहनुः, सबलः, भस्माङ्गी, दुर्जयः, दुरातिक्रमः, वेतालः, रौ- रवः, दुर्धराभोगः, वज्रः, कालाग्निरुद्रः, सिंहनादः, महागु- हः १६ कामावसायिकाद्वि० १६। ततो दाक्षादिशिवतृतीयाव- रणदेवतानां प्रथमद्वितीयावरणदेवतास्तत्कोष्ठबाह्याष्टतद्वाह्यषो- डशकोष्ठेषु स्थाप्याः । ता यथा-मनोहरा, महानादा, चित्रा, चित्ररथा, रोहिणी, चित्राङ्गी, चित्ररेखा, विचित्रिका ८ दाक्षा- प्र० चित्रा, विचित्ररूपा, शुभदा, कामदा, शुभा, क्रूरा, पिङ्ग- लादेवी, खङ्गिका, लम्बिका, सती, दंष्ट्राली, राक्षसी, ध्वंसी, लोलुपा, लोहितामुखी १६ दाक्षाद्वि० १। सर्वाशिनी, विश्वरूपा, लम्पटा, आमिषप्रिया, लम्बोष्ठी, दीर्घदंष्ट्रा, लम्बजानुः, प्रहारिणी ८ दाक्षायिकाप्र० । गजकर्णा, अश्वकर्णा, महाकाळी, सुभीषणा, वातवेगरवा, घोरा, घना, घनरवा, घोरघोषा, महाघण्टा, सुघण्टा, घण्टिका, घण्टेश्वरी, महघोरा, अ- घोरा, अतिघोरिका १६ दाक्षायिकाद्वि०२ । अतिघण्टा, अति- घोरा, कराला, करभा, विभूतिः, भोगदा, कान्तिः, शङ्खि-