वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 374, कुल 490 में से
संदर्भ में पढ़ें३७८ वीरमित्रोदयस्य राजनीतिप्रकाशे
मृन्मयं वा पूर्वोक्तलक्षणलक्षितं हेमकमलाच्छादितं रुद्रक्षेत्रे स्थाप- नीयम् । रुद्रक्षेत्राभावे तदर्थमप्येको मण्डपः कार्यः । तत्कलश- पूरणार्थं घृतं क्षीरं दधि पञ्चगव्यं वा । घृतपलाशसमिदाज्यचरु- लाजशालिनीवारतण्डुलरूपाण्यष्टौ होमद्रव्याणि प्रतिकुण्डम् । घृतं लौकिकमाज्यं संस्कृतमिति भेदः । प्रतिकुण्डं होता ब्रह्मा चेति द्वौ द्वौ ब्राह्मणौ । तत्र याम्ये कृष्णवासा होता । ऐन्द्रेशान्यन्त- रालगते प्रधानकुण्डे आचार्यो नृपः पुरोहितो वा होता । द्वार- जापकाश्चाष्टौ । रुद्राभिषेककर्त्ता तु पुरोहित एव । अनुक्तान्य- कर्तृकेषु राजसम्बन्धिकार्येषु तस्यैव कर्तृत्वदर्शनात् । साहाय्या- र्थं चान्येऽपि यथासम्भवम् । हैमं मृणालभासितं कौतुकम् । द्वारदे- शात्पदमात्रे निखातैः पूर्वाक्रमेण पलाशोदुम्बराश्वत्थवटमयैर्हे- मकुम्भान्वितैस्तोरणैर्युक्तं दर्भमालासमावृतं द्वारदेशादौ निक्षि- प्ताष्टमङ्गलद्रव्यमावाहितदिग्गजाष्टकं द्वारकुम्भभूषितं राजाभिषे- कमण्डपं दशहस्तं कुर्यात् । तन्मध्ये वेदिकायां भद्रासनम्, अष्ट- मङ्गलानि च- इक्षवः स्तवराजं च निष्पावाजाजिधान्यकम् । विकारवच्च गोक्षीरं कुसुम्भकुसुमं तथा ॥ लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते ॥ इति मत्स्यपुराणोक्तानि । भद्रासनं च सौवर्णं रौप्यं ता- म्रमयं क्षीरिवृक्षजं वा माण्डलिकानन्तरजिन्महाराजानां क्रमे- णैकसपादसार्द्धहस्तोच्छ्रायं तावदायामं राजाभिषेकप्रकरणे विष्णुधर्मोत्तरोक्तं ग्राह्यम्, आकाङ्क्षितत्वादवान्तरसामान्येन च बुद्धिस्थत्वात् । राज्ञो धारणार्थमाहवनीयादिजं भस्म । श्वेत- च्छत्रशिविकावैजयन्तीशङ्खचामरभेर्यादीनि नृपचिह्नानि राज- भूषणानि च प्रभूतानि । अभिषेककाले च नानाविधानि वा-