भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 373, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 373

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकसम्भारः। ३७७ कर्णिकायां स्थापनीयश्चैकः । स चोदरादिषु पूर्वोक्तद्विगुण- परिमाणः । तन्तूनां परस्परान्तरालं यवमात्रं यथा स्या- तथा जालवद्वेष्टनीयश्च । तद्वामभागस्थाप्या करकापरपर्याया चैका वर्धनी । सर्वे चैते हैमा राजतास्ताम्रमया वा । सर्वेषां पूरणार्थं गन्धोदकं, तन्मध्ये च निक्षेप्याणि पञ्चरत्नानि कन- कशकलानि ब्रह्मकूर्चाश्च । साधारणानि च पञ्चपल्लवसप्त- मृदादीनि । शिवकुम्भोपरिस्थाप्यं चाग्नेयादिकोणेषु क्रमेण सितरक्तपीतकृष्णवर्णसिंहयुक्तं पूर्वादिक्षु सुवर्णवर्णगात्रयुतं सुवर्णादिमयं सिंहासनं, सर्वेषां प्रत्येकं वेष्टनार्थानि वस्त्रयुग्मानि, प्रच्छादनार्थानि च हैमानि रत्नचित्राणि कमलानि, शिवप्र- तिमा देवीप्रतिमा । तयोर्लक्षणमुक्तम्— मत्स्यपुराणे, पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनम् । कपालशूलखट्वाङ्गी चन्द्रमौलिः सदा शिवः ॥ अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम् । उमा विभर्ति हस्तेषु पूजिता त्रिदशैरपि ॥ इति । अष्टाधिकं सहस्रमन्यप्रतिमा । तत्र स्त्रीप्रतिमाः- सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः । पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषिताः ॥ सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः । मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः ॥ भूषिता हारकेयूरैर्यावद्धेव्यः पृथक्पृथक् । इतिलिङ्गपुराणोक्तलक्षणलक्षिताः कार्याः । पुम्प्रतिमाश्च रुद्ररूपाः । बाणलिङ्गं, तदभिषेकार्थं चान्यत्कलशसहस्रं ताम्रमयं ४८