भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 372, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 372

३७६ वीरमित्रोदयस्य राजनीतिप्रकाशे

येत् । ततः प्रागपरायतासु दक्षिणोत्तरायतासु च रेखासु उपान्त्यरेखामारभ्य षड्रेखाः सङ्गृह्य सप्तमीं सप्तमीं रेखां परि- मार्जयेत् । तथा च प्रागपरायता अष्टौ तत्सम्भिन्नाश्च दक्षि- णोत्तरायता अष्टौ एवं षोडशान्तरा वीथ्यः सम्पद्यन्ते । ततश्च तन्मध्यवर्त्तिनः प्रत्येकं पञ्चविंशतिकोष्ठका एकोनपञ्चाशद्व्यूहा भवन्ति । तेषु मध्यगतं व्यूहनवकं परिमृज्याष्टदलं कमलं का- र्यम् । तत्समन्तान्नाभिवीथीमध्यस्थपद्मदलेषु परिशिष्टेषु च- त्वारिंशद्व्यूहेषु च प्रतिकोष्ठकमलानि । तत्र मध्यकोष्ठेषु मु- ख्याः शक्तयः सुभद्राद्या दाक्षाद्याश्च शिवस्य द्वितीयतृतीया- वरणयोः । तत्प्रथमावरणे तु वामादिमिथुनाष्टकं केसरदलेषु प्र- धानकमलस्य । मध्यमकोष्ठेभ्यो बहिरष्टकोष्ठकं प्रथमावरणं षोडशषोडशकोष्ठकं द्वितीयं प्रत्येकं शक्तीनाम् । तत्र नाभि- वीथ्यनन्तरबाह्यषोडशव्यूहसंलग्ना पिशाचवीथी । तत्संलग्ना चतुर्विंशतिव्यूहबाह्या महावीथीति । सर्वाणि च पद्मानि शालिनी- वारगोधूमाणुयवतण्डुलगौरसर्षपान्विततिलानामन्यतरेण धा- न्येन यथालाभं समुदितैर्वा कार्याणि । तत्र मध्यवर्त्तिनि नव- व्यूहाष्टदले शालयो द्रोणमिताः, तदर्धं तण्डुलाः, आढक- मितास्तिलाः, तदर्द्धं यवादयः । अन्येषु आढकमिताः शा- लयः, तदर्द्धं तण्डुलाः, तदर्धं यवतिलादयः । प्रधानकमलं च हस्तमात्रमष्टाङ्गुलप्रमाणसुवर्णकर्णिकं चतुरङ्गुलकेसरस्थानमव- शिष्टपत्रस्थानं कार्यम् । अन्यानि द्वादशाङ्गुलेषु कोष्ठेषु यथा- सम्भवम्। प्रधानकमलकेसराष्टकदलाष्टकचत्वारिंशद्व्यूहान्तर्गत- सहस्रपदेषु च स्थापनीयं षोडशाधिकं कलशसहस्रम् । तच्च द्वादशाङ्गुलायामोदरं षडङ्गुलवर्त्तितनाभिकं द्व्यङ्गुलोत्सेधचतुरङ्गु- लविस्तारकण्ठं द्व्यङ्गुलोत्सेधनिर्गमौष्ठं कार्यम् । प्रधानकमल-