वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 371, कुल 490 में से
संदर्भ में पढ़ेंयात्रामकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७५ सप्तिहस्तायामविस्तारास्तावदर्थाद्भवन्ति । लिङ्गपुराणे, विधिना मण्डपं कृत्वा प्रपां वा कूटमेव च । नवधा स्थापयेद्वह्निं ब्राह्मणो वेदपारगः ॥ ततः सर्वाभिषेकार्थं सूत्रपातं च कारयेत् । इत्यभिधानात्, चकारेण मण्डपादिमध्य एव मण्डलरचना- प्रतीतेः, मण्डलरचनायाश्च सर्वतडागोत्सर्गादौ मण्डपप्रागपर- दक्षिणोत्तरसूत्रयोस्त्रिधाविभक्तयोर्मध्यमतृतीयभागाश्रितवेद्याधिक- रणकत्वदर्शनात् अत्रत्यमण्डलप्रकृतिपञ्चाशद्रेखानां च पदा- नां द्वादशाङ्गुलप्रमाणत्वोक्त्या प्रत्येकं तावदन्तरत्वात् । तथा च प्रत्येकद्वादशाङ्गुलान्तरालपञ्चाशद्रेखानिवर्त्यमण्डलसिद्ध्यर्थं शुक्लरक्तकृष्णतत्तत्परिधिरेखासिद्धयर्थं च वेदियोग्यः पञ्चविंश- तिहस्तस्तावन्मण्डपादिमध्यतृतीयभागोपेत इति मण्डपादेः पूर्वो- क्तपरिमाणसिद्धिः । ततश्च तदनुरूपा स्तम्भपरिमाणविवृद्धिः । पटलनिवेशनार्थं तिर्यक्काष्ठनिवेशनार्थं चार्थात्स्तम्भविवृद्धिरपि क- ल्प्या मण्डपकूटयोः । तत्र मध्यस्तम्भास्तावन्मण्डपविस्तारद- लोच्चा एव, प्रान्तस्तम्भाश्च पञ्चहस्ता एव, अन्यत्र तथादर्श- नात् । आर्थिकमध्यस्तम्भास्त्वार्थिकपरिमाणा एवेति दिक् । अस्मिंश्च मण्डपादौ प्रागपरदक्षिणोत्तरमध्यसूत्रत्रेधाविभागे- न नवभागे कृतेऽष्टसु दिग्भागेषु अष्टौ पूर्वेशान्यन्तराले चैकमिति नव कुण्डानि स्थण्डिलानि वा । तानि च तत्तदाकृतिकानि वर्ण- भेदेन चतुरस्रादीन्येव वा । मध्यमभागे च वेदिरायामतृतीयां- शोच्चा । तत्र च राजाभिषेककलशस्थापनार्थं मण्डलम् । तद्यथा- प्रागपरायताः प्रत्येकं द्वादशाङ्गुलान्तरालाः पञ्चाशद्रेखा लि- खित्वा तादृशीभिरेव दक्षिणोत्तराभिः पञ्चाशद्रेखाभिस्ता भेद-