वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 365, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३६९ शुक्रा तारा तथाज्ञाना क्रिया गायत्रिका तथा । सावित्री चेति विधिना द्वितीयावरणे स्मृताः ॥ नन्दायाः कथितं व्यूहं पैतामहमतः शृणु । दन्तुरी चैव फेत्कारी क्रोधहासा षडङ्गुला ॥ आनन्दा च सुदुर्गा च संहारी ह्यमृताष्टमी प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ कुलान्तिकाऽनला चैव प्रचण्डा मर्दनी शुभा । सर्वभूताभया चैव देवी च वडवामुखी ॥ लम्पटा पन्नगा देवी कुसुमा विपुलान्तिका । केदारा च तथा कूर्मा दुरिता मन्दरोदरी ॥ खड्गचण्डेति विधिना द्वितीयावरणं स्मृतम् । व्यूहं पैतामहं प्रोक्तं धर्मकामार्थमोक्षदम् ॥ पितामह्यार्यव्यूहं च शृणुष्व कथयामि ते । वज्रा च मन्मथा चोरा विकारा रिपुभेदिनी ॥ रूपा चतुर्भुजा योगा प्रथमावरणे स्मृताः । भूताभया महाबाला खर्प्परा च ततः परम् ॥ भस्मा कान्ता तथा सृष्टिर्द्विभुजा ब्रह्मरूपिणी । सद्यःफेत्कारिका नाम कर्णमोटी तथापरा ॥ महामोहा महामाया गान्धारी पुष्पमालिनी । शब्दायी च महाघोषा षोडशैतास्तथान्तिमे ॥ सर्वाश्च द्विभुजा देव्यो बालभास्करसन्निभाः । पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषणाः । सर्वाभरणसम्पूर्णा मुकुटाद्यैरलङ्कृताः ॥ १ नन्दिनी इत्यपि पाठः । २ खड्गचक्रेत्यपि पाठः । ४७