वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 366, कुल 490 में से
संदर्भ में पढ़ें३७० वीरमित्रोदयस्य राजनीतिप्रकाशे मुक्ताफलमयैर्दिव्यै रत्नचित्रैर्मनोरमैः । भूषिता हारकेयूरैर्गौरा ध्येयाः पृथक् पृथक् ॥ एवं सहस्रकलशं ताम्रजं मृन्मयं तु वा । पूर्वोक्त१दक्षिणायुक्तं रौद्रक्षेत्रे प्रतिष्ठितम् ॥ भवाद्यैर्विष्णुना प्रोक्तैर्नाम्नां चैव सहस्रकैः । सम्पूज्य विन्यसेदग्रे सेचयेद्वाणविग्रहम् ॥ अभिषिच्य च विज्ञाप्य सेचयेत्पृथिवीपतिम् । एवं सहस्रकलशं सद्यःसिद्धिफलप्रदम् ॥ चत्वारिंशन्महाव्यूहं सर्वलक्षणलक्षितम् । सर्वेषां कलशं प्रोक्तं पूर्ववद्धेमनिर्मितम् ॥ सर्वे गन्धोदकैः पूर्णास्तीर्थतोयसमन्विताः । तथा कनकसंयुक्ता देवस्य घृतपूरिताः ॥ क्षीरेण वाथ दध्ना वा पञ्चगव्येन वा पुनः । ब्रह्मकूर्चेन वा मेध्यमभिषेको विधीयते ॥ रुद्राध्यायेन रुद्रस्य नृपतेः शृणु सुव्रत ॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ मन्त्रेणानेन राजानं सेचयेदभिषेचितम् । होमं च मन्त्रेणानेन अघोरेणाघहारिणा ॥ प्रागाद्यं देवकुण्डे वा स्थण्डिले वा घृतादिभिः । समिदाज्यचरुं लाजशालिनीवारतण्डुलैः ॥ अष्टोत्तरशतं हुत्वा राजानमधिवासयेत् । पुण्याहं स्मस्ति२रित्याद्यैः कौतुकं हेमनिर्मितम् ॥ १ पूर्वोक्तलक्षणैर्युक्तमिति च पाठः । २ स्वस्तिरुद्राय इत्यपि पाठः ।