भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 364, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 364

३६८ वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वगा सुविरावा च बन्धनी चेति शक्तयः । गोपाव्यूहं मया ख्यातं गोपायीव्यूहमुच्यते ॥ भेदिनी छेदनी चैव सर्वकारी क्षुधाशनी । उच्छुष्मा चैव गान्धारी भश्माशी वडवानला ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । अन्ववज्वालिनी ज्वाला दीपाक्षामा तथैव च ॥ अन्तरिक्षा च हृल्लेखा हृद्रमा मायिकापरा । आमयासादिनी भिल्ली सह्यासह्या सरस्वती ॥ रुद्रशक्तिर्महाशक्तिर्महामोहा च रोदिनी । गोपाय्याः कथितं व्यूहं नन्दाव्यूहं वदामि ते ॥ नन्दिनी च निवृत्तिश्च प्रतिष्ठा च यथाक्रमम् । विद्यानाशी खग्रसनी चामुण्डा प्रियदर्शनी ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । गुह्या नारायणी मोहा प्रज्ञा देवी च वज्रिणी ॥ कङ्कटा च तथा काली शिवा घोषा ततः परम् । वीरा माया च कामेशी वहिनी भीषणी तथा ॥ स्वर्गा माला च निर्दिष्टा द्वितीयावरणे स्मृताः । नन्दाव्यूहं समाख्यातं नन्दायीव्यूहमुच्यते ॥ विनायकी पूर्णिमा च रङ्गिणी कूर्दनी तथा । इच्छा कपालिनी चैव दीपनी च जयन्तिका ॥ प्रथमावरणे चाष्टौ शक्तयः परिकीर्त्तिताः । पावनी चाम्बिका चैव सर्वाशा पूतना तथा ॥ छागली मोदिनी साक्षाद्देवी लम्बोदरी शुभा । संहारी कालिनी चैव कुसुमा च यथाक्रमम् ॥ १ रङ्कारी कुण्डली तथा इत्यपि पाठः ।