भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 363, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 363

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६७ ऋद्धिर्बुद्धिर्धृतिः कान्तिः स्मृतिः साक्षाच्छुतिर्धरा ॥ शाकुनाय्या महाव्यूहं कथितं कामदायकम् । स्वायम्भुव तथा व्यूहं सुमताख्यं सुशोभनम् ॥ परेष्टा च परादित्या ह्यमृता फलनाशिनी । हरिणाक्षी सुवर्णाक्षी देवी साक्षात्कपिञ्जला ॥ कामरेखा च कथितं प्रथमावरणं शुभम् । रत्नदीपा वसुदीपा रत्नदा रत्नमालिनी ॥ रत्नशोभा सुशोभा च महाशोभा महाद्युतिः । शवरी शाम्बरी ग्रन्थिपादकर्णकरानना ॥ हयग्रीवा च जिह्वा च सर्वग्रासेतिशक्तयः । कथितं सुमतव्यूहं सुमत्या व्यूहमुच्यते ॥ सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा । स्फुलिङ्गा विस्फुलिङ्गा च कृतान्ता भास्करानना ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । रागा रागवती क्रोधा महाक्रोधा च रौरवा ॥ क्रोधनी मृदनी चै व कलहा कलहावती । कलान्तिका चतुर्भेदा दुर्गा वै दुर्गमानगा ॥ नाली कुनाली सौम्या च इत्येवं कथितं मया । गोपाव्यूहं वदाम्यद्य शृणु स्वायम्भुवाखिलम् ॥ पाटली पाटवी चैव पाटी विटिपिटा तथा । कङ्कटा सुघटा चैव प्रघटा च घटोद्भवा ॥ प्रथमावरणं चात्र गोपायाः कथितं मया । नादाक्षी नादरूपा च सर्वकारागमागमा ॥ अग्रचारी सुचारी च चण्डनाडी सुवाहिनी । सुयोगा च वियोगा च हंसाक्षी च विलासिनी ॥

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 363, कुल 490 में से · BharatKosha