वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 369, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः । ३७३ दिग्ध्वजाष्टकसंयुक्तं द्वारकुम्भैः सुशोभिम् । हेमतोरणकुम्भैश्च भूषितं स्नापयेन्नृपम् ॥ चर्मोपरिसमासीनं शिवकुम्भेन सेचयेत् । तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ॥ तन्नः शिवः प्रचोदयात् । मन्त्रेणानेन विधिना वर्द्धन्या गौरीगीतया ॥ रुद्राध्यायेन वा सर्वमघोरेणापि वा पुनः । दिव्यैराभरणैः शुक्लैर्मुकुटाद्यैः सुकल्पितैः ॥ क्षौमैर्वस्त्रैश्च राजानं भूषयेन्नियतः शुभैः । अष्टषष्टिपलेनैव हैमं कृत्वा सुरद्रुमम् ॥ नवरत्नैरलङ्कृत्य दद्याद्वै दक्षिणां गुरोः । दश धेनूः सवस्त्राश्च दद्यात्क्षेत्रं सुशोभनम् ॥ शतद्रोणं तिलं चैव शतद्रोणं च तण्डुलान् । शयनं वाहनं छत्रं शय्यां सोपस्करां शुभाम् ॥ होतॄणां चैव सर्वेषां त्रिंशत्पलमुदाहृतम् । अध्येतॄणां तदर्द्धेन ब्राह्मानां च तदर्द्धतः ॥ महापूजां ततः कुर्यान्महादेवस्य वै नृपः । एवं समासतः प्रोक्तं जयसेचनमुत्तमम् ॥ एवं पुराभिषिक्तस्तु शक्रः शक्रत्वमागतः । ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥ अम्बिका चाम्बिकात्वं च सौभाग्यमतुलं तथा । सावित्री च धरा लक्ष्मीर्देवी कात्यायनी तथा ॥ नन्दिना च पुरा मृत्यु रुद्राध्यायेन वै द्विज । अभिषिक्तोऽसुरैः पूर्वं तारकाख्यो महाबलः ॥ विद्युन्माली हिरण्याक्षो विष्णुना वै विनिर्जितः ।