वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 359, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६३ चलवेगा महाकाया महामाया च विश्रुता ॥ कङ्काली च कृशाङ्गी च किंशुका चण्डघोषिका । महाहासा महारावा चण्डभाऽनङ्गचण्डिका ॥ चण्डायाः कथितं व्यूहं हरव्यूहं शृणुष्व मे । चण्डाक्षी कामदा देवी शूकरी कुक्कुटानना ॥ गान्धारी दुन्दुभिर्दुर्गा सौमित्रा चाष्टमी स्मृता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ अमृतोद्भवा महालक्ष्मीर्वर्णदा जीवरक्षिणी । हरिणी क्षीणजीवा च चन्द्रवक्त्रा चतुर्भुजा ॥ व्योमचारी व्योमरूपा व्योमव्यापी शुभोदया । गृहचारी सुचारी च विषाहारी विषान्तिका ॥ हरव्यूहं समाख्यातं हरायीव्यूहमुच्यते । जम्भाऽच्युता च कङ्कारी देविका दुर्धरावहा ॥ चण्डिका चपला चेति प्रथमावरणे स्मृताः । चण्डिका चामरी चैव भण्डिका च शुभानना ॥ पिण्डिनी मुण्डिनी मुण्डा डाकिनी शार्ङ्गरी तथा । कर्त्तरी हर्त्तरी चैव भामिनी यज्ञदायिनी ॥ यमदंष्ट्रा महादंष्ट्रा कराला चेति शक्तयः । हराय्याः कथितं व्यूहं शौण्डान्यूहं शृणुष्व मे ॥ विकराली कराली च कालजङ्घा यशस्विनी । वेगा वेगवती विद्या वेदाङ्गा चाष्ट शक्तयः ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । वज्रा शङ्खवती शङ्खा बला चैकबला तथा ॥
१ अत्र लिङ्गपुराणे-“वज्रा शङ्खातिशङ्खा वा बला चैवाबला