वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 360, कुल 490 में से
संदर्भ में पढ़ें१६४ वीरमित्रोदयस्य राजनीतिप्रकाशे बला चातिबला लोला कुम्भिनी स्तम्भिनी तथा । अञ्जनी मोहनी माया विकटाङ्गी नली तथा । शौण्डाव्यूहं समाख्यातं शौण्डायीन्यूहमुच्यते । दन्तुरा रौद्रभागा च अमृता सुकुला तथा ॥ चलजिह्वार्धनेत्रा च रूपिणी दारिका तथा । प्रथमावरणस्यैता द्वितीयावरणे शृणु ॥ खादका रूपनाशा च संहारी चाक्षयान्तका । कण्डनी पेषणी चैव महाग्रासा कृतान्तिका ॥ दण्डिनी किङ्करी बिम्बा वर्णिनी चापलाङ्गिनी । विद्राणी द्राविणी चेति शक्तयः षोडशैव तु ॥ कथितं हि मनोरम्यं शौण्डायीव्यूहमुत्तमम् । प्रथमाख्यं प्रवक्ष्यामि व्यूहं रम्यं सुशोभनम् ॥ प्लवनी प्लावनी शोभा मन्दा चैव मदोत्कटा । मदाक्षया महादेवी प्रथमावरणे स्मृताः ॥ कामसन्दीchart? NO -> कामसन्दीchart: कामसन्दी पनी देवी अतिरूपा मनोहरा । महावशा मदग्राहा विह्वला मदविह्वला ॥ अरुणा घोषणी दिव्या रेवती भाण्डनायिका । स्तम्भनी घोररक्ताक्षी घोररूपा सुघोषणा ॥ व्यूहं तु प्रथमाख्यं ते स्वायम्भुव यथा तथा । कथितं प्रथमायाख्यं प्रवक्ष्यामि शृणुष्व मे ॥ घोरा घोरतरा घोरा अतिघोररायनायिका ॥ धावनी क्रोष्टुकी मुण्डा चाष्टमी परिकीर्त्तिता । तथा । अञ्जनी मोहनी माया विकटाङ्गी नली तथा ॥ गण्डकी दण्ड- की घोणा शोणा सत्यवती तथा । कल्लोला चेति क्रमशः षोडशैव यथाविधि ॥” इति पाठः ।