वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 361, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३६५
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । भीमा भीमतराऽभीमा शस्त्री चैव सुवर्चला ॥ स्तम्भनी मोहनी रौद्री रुद्रवत्यचलाचला । महाबला महाशान्तिः शिवाशीला शिवाशिवा । बृहत्कुक्षी बृहन्नासा षोडशैव प्रकीर्त्तिताः ॥ प्रथमायी समाख्याता मन्मथाख्यं वदामि ते । कालकर्णी कराला च कल्याणी कपिला शिवा ॥ इष्टिसुष्टिः प्रतिष्ठा च प्रथमावरणे स्मृताः । शान्तिः पुष्टिकरी तुष्टिर्ज्ञेया चैव श्रुतिर्धृतिः ॥ कामदा सुभगा सौम्या तेजनी कामतन्त्रिका । धार्मिकी धर्मिणी शीला पापहा धर्मवर्द्धनी ॥ मान्मथं कथितं व्यूहं मान्मथायिकमुच्यते । धर्मरक्षा निवाता च धर्माधर्मवती तथा ॥ सुमतिदुर्मतिर्मेधा विमला चाष्टमी स्मृता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ शुद्धिर्बुद्धिर्मतिः कान्तिर्वर्तुला मोहावर्द्धनी । बला चातिबला भीमा प्राणवृद्धिकरी तथा ॥ निर्लज्जा निर्घृणा मन्दा सर्वपापक्षयङ्करी । कपिला चातिविधुरा षोडशैताः प्रकीर्त्तिताः ॥ मान्मथायिकमुक्तं ते भीमाव्यूहं वदामि ते । रक्ता चैव विरक्ता च उद्वेगा शोकवर्द्धनी ॥ कामा तृष्णा क्षुधा मोहा चाष्टमी परिकीर्त्तिता । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ जया निद्राऽभयालस्या सुतृष्णा रोदनी दरा । कृष्णाकृष्णाङ्गिनी वृद्धा शुद्धोच्छिष्टाशनी वृषा ॥