वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 345, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे अशुभनिमित्तानि । ३४९ विद्यादथापिधाय कर्णौ उपशृणुयात्स एषोऽग्नेरिव प्रज्व- लतो रथस्येवोपब्दिस्तं यदा न शृणुयात्तदप्येवमेव विद्याद्- थापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत त- दप्येवमेव विद्यादथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येव- मेव विद्यादिति प्रत्यक्षदर्शनानि । इति (आ०३अ०२खं०१०) स यश्चायमिति । स यो ज्ञानरूपोऽशरीर आत्मा स चा- दित्यमण्डलस्थश्च एक एवेत्यवोचाम-"यश्चासावादित्यमण्डले पुरुषः सोऽहम्” इत्यनेन । तदेकत्वं तिरोधायादित्यशरीरपुरुषौ यदा विहीयेते वियुक्तौ भवत इत्येकमरिष्टम् । तत्र लिङ्गम्-चन्द्र- मा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्तीति। रश्मय उष्णाः । मञ्जिष्ठावत् द्यौर्लोहिनी दृश्यते इति द्वितीयम् । पायुद्वारं व्यस्तं विवृतं दृश्यते इति तृतीयम् । काकनीडसदृशगन्धमस्य शिरो भवतीति चतुर्थम् । एषामन्यतरस्मिन् सम्पन्नेऽस्यात्मा जीवो मृतो न चिरञ्जीविष्यतीति निश्चिनुयात् । ततः किमि- त्याह-स यदिति । करणीयं, लौकिकं वैदिकं च । तावद्विलम्ब- सिद्ध्यर्थं यदन्तीत्यादिका ऋचो जपेत् । अरिष्टान्तरं दर्शयति- अथेति। सूर्यो रथचक्रनाभिरिव सच्छिद्रो भवति, स्वच्छायों वा सच्छिद्रां पश्येत्, तदपि पूर्ववत् । आदर्शो, दर्पणः । अत्रादर्शो- दकाभ्यां प्रतिबिम्बयोग्यानि स्वच्छानि खड्गादीन्युपलक्ष्य- न्ते । तेषु प्रतिबिम्बयोग्येषु द्रव्येषु आत्मानं स्वकीयं देहं जि- ह्मशिरसं कुटिलशिरसं शिरोरहितं वा पश्येदिति निमित्तद्वय- म् । कन्याके, अक्षिकनीनिके, प्रतिबिम्बितचक्षुर्गर्त्तमध्ये विप- र्यस्ते शुक्लमण्डलमध्ये कृष्णमण्डलमिति यथास्थितचक्षुःसन्नि- वेशापेक्षया विपरीते, जिह्येन वा, वक्रत्वेन वा उपलक्षिते इति