वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 349, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकविधिः। ३५३ मनोन्मनाय देवाय मनोन्मन्यै नमो नमः । मन्त्रैरेतैैर्यथान्यायं पूजयेन्मण्डलोपरि ॥ प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु । द्वितीयावरणे चैव शक्तयः षोडशैव तु ॥ तृतीयावरणे चैव चतुर्विंशदनुक्रमात् । पिशाचवीथी वै मध्ये नाभिवीथी समन्ततः ॥ पिशाचानां हि मध्ये तु महावीथी प्रकीर्तिता । अष्टोत्तरसहस्रं तु पदमष्टारसंयुतम् ॥ तेषु तेषु पृथक्त्वेन पदेषु कमलं क्रमात् । कल्पयेच्छालीनीवारगोधूमाणुयवादिभिः ॥ तण्डुलैश्च तिलैर्वाथ गौरसर्षपसंयुतैः । अथ वा कल्पयेदेतैैर्यथाकालं विधानतः ॥ अष्टपत्रं लिखेत्तेषु कर्णिकाकेसरान्वितम् शालीनामाढकं प्रोक्तं कमलानां पृथक् पृथक् ॥ तण्डुलानां तदर्द्धं स्यात्तदर्द्धं तु यवादयः । द्रोणं प्रधानकुम्भस्य तदर्द्धं तण्डुलाः स्मृताः ॥ तिलानामाढकं मध्ये यवानां च तदर्द्धकम् । अर्घ्याम्भसा समभ्युक्ष्य कमलं प्रणवेन तु ॥ तेषु सर्वेषु विधिना प्रणवं च न्यसेक्रमात् । एवं समाप्य चाभ्यर्च्य पदसाहसमुत्तमम् ॥ कलशानां सहस्राणि हैमानि च शुभानि तु । उक्तलक्षणयुक्तानि कारयेद्राजतानि वा ॥ १ मन्त्रैरेतैैर्यथान्यायं पिशाचानां प्रकीर्तिता । इतिमुद्रितलिङ्गपु- राणे पाठः । ४५