वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 348, कुल 490 में से
संदर्भ में पढ़ें३५२ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रागाग्रं दक्षिणाग्रं च षट् रेखाः संहरेत्क्रमात् ॥ प्रागाद्याः पङ्क्तयः सप्त दक्षिणाग्रास्तथा पुनः । तस्मादेकोनपञ्चाशत्पङ्क्तयः परिकीर्त्तिताः ॥ न च पङ्क्तिं हरेन्मध्ये गन्धगोमयवारिणा । कमलं वा लिखेत्तत्र हस्तमात्रं सुशोभनम् ॥ अष्टपत्रं सितं वृत्तं कर्णिकाकेसरान्वितम् । अष्टाङ्गुलप्रमाणेन कर्णिका हेमसन्निभा ॥ चतुरङ्गुलमानेन केसरस्थानमुच्यते । धर्मं ज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमम् ॥ आग्नेयादिषु कोणेषु स्थापयेत्प्रणवेन तु । अव्यक्तादीनि वै दिक्षु गोवाचारेण विन्यसेत् ॥ अव्यक्तो नियतः कालः कला चेति चतुष्टयम् । सितरक्तहिरण्याभकृष्णा धर्मादयः क्रमात् ॥ हंसाकारेण वै गात्रं हेमाभासेन सुव्रत । शक्तिराधारमध्ये तु कमलं सृष्टिकारणम् ॥ बिन्दुमात्रं कलामध्ये नादाकारमतः परम् । नादोपरि शिवं ध्यायेदोङ्काराख्यं जगद्गुरुम् ॥ मनोन्मनीं पदान्तस्थां महादेवं च भावयेत् । वामादयः क्रमेणैव प्रागाद्याः केसरेषु वै ॥ वामा ज्येष्ठा तथा रौद्री कला विकरणी तथा । बलप्रमथनी देवी दमनी च यथाक्रमम् ॥ वामदेवादिभिः सार्द्धं प्रणवेन तु विन्यसेत् । नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने ॥ रुद्राय कालरूपाय कलाविकरणाय च । बलानां च तथा सर्वभूतस्य दमनाय च ॥