वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 416, कुल 490 में से
संदर्भ में पढ़ें४२० वीरमित्रोदयस्य राजनीतिप्रकाशे दीपा रात्रौ च सर्वत्र राजमार्गे गृहेषु च । अनन्तराः क्रियन्तां वै प्रचुरं स्नेहवर्त्तयः ॥ तरुणाः सह योषिद्भिः समन्तात्पर्यटन्तु च । रममाणा हसन्तश्च गायन्तो नृत्तसेविनः ॥ भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दिव्ययोषितः । महादेवस्य पूजां च गन्धपुष्पादिकीं शुभाम् ॥ उपहारांश्च विविधान् शयनानि महान्ति च । बलयः पुष्कलाश्चैव भक्ष्यभोज्यैरलङ्कृताः ॥ दीपांश्च विविधाकारान् पानानि कृशरांस्तथा । फलानि च विचित्राणि मांसं पक्वं तथाऽऽमकम् ॥ सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत । वध्यन्तां पशवश्चात्र भोज्यन्तां च द्विजोत्तमाः ॥ यो न कुर्यादिदं सर्वं पुरवासी नरः कचित् । पातयेत्तस्य शारीरं दण्डं राजा महायशाः ॥ राजापि संयतः शान्तः शुचिः प्रयतमानसः । दिवसे दिवसे रुद्रं स्नापयेत प्रयत्नवान् ॥ पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना । क्षीरेण सर्पिषा दध्ना रसैश्च बहुभिः शुभैः ॥ पुष्पैः फलैश्च बीजैश्च रत्नैश्चाद्भिः समन्वितैः । भस्मना गन्धयुक्तेन उदकेन सुगन्धिना ॥ एकैकशः स्वयं राजा घटानां दशभिः शतैः । दिवसे दिवसे व्यास त्र्यम्बकं सोऽभिषेचयेत् ॥ गन्धैः पुष्पैश्च धूपैश्च जाप्यैर्बलिभिरेव च । पूजयित्वा ततो राजा विप्रानन्यांश्च भोजयेत् ॥ सत्कृत्वा पशुभिर्मेध्यैर्वस्त्रैर्मणिभिरेव च ।