वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 415, कुल 490 में से
संदर्भ में पढ़ेंकौमुदीमहोत्सवः । ४१९ गृहे गृहस्थैः सम्पूज्याः स्त्रियश्च गृहदेवताः । आचारान् पालयेदेतान् यस्तु राजा समाहितः ॥ सपुत्रपौत्रसंयुक्तो दीर्घायुर्धनवान् भवेत् । सर्वत्र जयमाप्नोति याति स्वर्गे च शाश्वतम् ॥ यदेतद्वैष्णवं वाक्यं देशेऽस्मिन् लङ्घ्यते जनैः । तदा सस्यानि नश्यन्ति घोरैरुदकविप्लवैः ॥ अतिवृष्टिरनावृष्टिर्दुर्भिक्षं च तथा मृतिः । दम्भाभिमानलोभांस्तु तस्मात्त्यक्त्वा प्रयत्नतः ॥ यदुक्तं विष्णुना वाक्यं तत्कुर्यात्कृतनिश्चयः । इति । इति ब्रह्मपुराणोक्तदेवयात्राप्रकरणम् । अथ कौमुदीमहोत्सवः । तत्र स्कन्दपुराणे, प्रातः प्रभृति राजा च आज्ञापयति कौमुदीम् । देवरात्रौ च देवस्य रुद्रस्यासुरनाशिनीम् ॥ सुसंमृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम् । वासोभिः संहतैः सर्वे भवन्तु पुरवासिनः ॥ स्रग्विणश्च शिरःस्नाताः सदाम्पत्या यथाक्रमम् । गायन्तु गायनाश्चैव नृत्यन्तु नटनर्तकाः ॥ उच्छ्रीयन्तां पताकाश्च गृहवीथ्यापणेषु च । गृहाणि चोपलिप्तानि नित्यमेव भवन्तु वः ॥ पुष्पप्रकरतुष्टानि धूपैर्नानाविधैरपि । स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च ॥ ब्राह्मणाश्चैव भोज्यन्तां क्रियन्तां बलयस्तथा । ब्रह्मघोषश्च सर्वत्र पुण्याहोदीरणानि च ॥