वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 418, कुल 490 में से
संदर्भ में पढ़ें४२२ वीरमित्रोदयस्य राजनीतिप्रकाशे ततः सम्पूजयेद्वृक्षं प्राङ्मुखोदङ्मुखोऽपि वा । नमो वृक्षपते वृक्ष त्वामर्चयति पार्थिवः ॥ ध्वजार्थमन्यथा नेदं तत्त्वया उपगम्यताम् । रात्रौ देयो बलिः श्वभ्रे दिक्षु वृक्षे तथैव च ॥ वासं वने महावृक्ष कृत्वा ह्यन्यत्र गम्यताम् । ध्वजार्थे देवराजस्य रक्षितं त्वां नयाम्यहम् ॥ पूजयित्वा ततो वृक्षं बलिं भूम्यां प्रदापयेत् । प्रभाते छेदयेद्वृक्षं शुभस्वप्नादिदर्शनैः ॥ उदङ्मुखः प्राङ्मुखो वा मध्वक्तेनाथ परशुना । पूर्वोत्तरं पतन् शस्तो निःशब्दो निर्व्रणः शुभः ॥ अलग्नः पादपेऽन्यस्मिन्नन्यथा तु परित्यजेत् । अष्टाङ्गुलं त्यजेन्मूलमग्रं तत्र जले क्षिपेत् ॥ तथा तं चानयेद्वृत्तं शकटेन वृषैरथ । युवाभिर्बलसम्पन्नैः प्रयत्नात्पुरतः पुरम् ॥ नीयमाना यदा यष्टिः समा वा चतुरस्रिका । वृत्ता वा भङ्गमादत्ते राजपुत्रपुरोहितौ ॥ पीड्येते इति शेषः । आराभङ्गे बलं भिन्द्यान्नेम्या भङ्गे क्षयस्तथा । रथस्य त्वक्षभङ्गे तु शान्तिं तत्र तु कारयेत् ॥ इन्द्रं यच्छेतिमन्त्रेण जातवेदोमयेन वा । तथा नीत्वा शुभे लग्ने पुरे तामुपवेशयेत् ॥ द्वारे शोभां पुरे रथ्याहट्टेष्वपि च कारयेत् । पटुभिः पटहनिनादैर्वैश्यासङ्घस्य मङ्गलैः ॥ द्विजानां वेदशब्दैश्च तां नयेद्यत्र चोच्छ्रयेत् । तत्रस्थां चित्रकर्मारनिर्मितैस्तां तु वेष्टयेत् ॥