वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 419, कुल 490 में से
संदर्भ में पढ़ेंदेवीपुराणोक्तेन्द्रध्वजोच्छ्रायविधिः । ४२३ वस्त्रैस्तदैव कृत्तोनैः शुभैः सूक्ष्मैर्यथाक्रमम् । नन्दोपनन्दसंज्ञाश्च कुमार्यः प्रथमांशके ॥ प्रथमांशके, प्रथमभागे । देव्यो जायाविजयाख्याः षोडशांशैर्व्यवस्थिताः । अम्बिकां शत्रुजरित्रीं नत्त्वाथ ध्वजदैवतम् ॥ ध्वजस्य परिमाणे ताः सम्पाद्यैव विनिर्दिशेत् षोडशांशविहीनानि कुर्याच्छेपाणि बुद्धिमान् ॥ वाससां चित्रवर्णानां स्वयम्भूः प्रथममदात् । सुभक्तां चतुरस्रां च विश्वकर्मा द्वितीयकम् ॥ अष्टास्रिं च स्वयं शक्रो नीलरक्तामदात्पुरा । कृष्णं यमेन दत्तं च वरुणेन महांशुकम् ॥ माञ्जिष्ठं जलजाकारं वायुर्देवोऽपि षष्ठकम् । नीलवर्णं च तत्प्रादात्स्कन्दो बहुविचित्रितम् ॥ वृत्तं तु दहनः प्रादात्सुवर्णं तच्च अष्टमम् । वैडूर्यसदृशं चेन्द्रो ग्रैवेयं पुनरप्यदात् ॥ चक्राङ्काकृतिवत्सूर्यो विश्वेदेवास्तु पञ्चकम् । नीलं नीलोत्पलाभासमृषयोऽपि च तद्ददुः ॥ शुक्रेण गुरुणा न्यस्तं विशालं तच्च मूर्द्धनि । ग्रहैरपि विचित्राणि तानि दत्तानि मातृभिः ॥ यद्यद्येनैव दत्तं तु केतोस्तत्तस्य भूषणम् । तत्तैवं तद्विजानीयाद्यन्त्रादिभिरथोच्छ्रयेत् ॥ कर्षन्ती प्रवरां भूमिं यष्टी राष्ट्रं निहन्ति च । बालानां तलशब्देन देशघातं विनिर्दिशेत् ॥ नृपघातकरी शीर्णा सर्वशान्ता शुभावहा । शाम्भूसूर्ययमेन्द्रेन्दुधनदानां च वारुणैः ॥