वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 427, कुल 490 में से
संदर्भ में पढ़ेंइन्द्रध्वजोच्छ्रायविधाविन्द्रप्रार्थनामन्त्राः । ४३१ मरुद्गणा लोकपालाश्चन्द्रः सूर्योऽनिलोऽनलः ॥ देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः । समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥ तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्त्तिरेव च । प्रवर्द्धयन्तु ते तेजो जय शक्र शचीपते ॥ इति । इत्याशीर्वादरूपान् मन्त्रान् पठित्वा इन्द्रप्रार्थनां कुर्यात् । प्रार्थनारूपाश्च मन्त्रास्तत्रैव पठिताः । तव चापि जयान्नित्यमिह सम्पद्यते शुभम् । प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत् । शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशम् ॥ नमस्ते देवदेवेश नमस्ते बलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ सर्वेषामेव लोकानां त्वमेकः परमा गतिः । त्वमेव परमं त्राणं सर्वस्यासि जगत्पते ॥ पाशो ह्यसि पथः स्रष्टुं त्वमनल्पान् पुरन्दर । त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥ त्वमेव धनविक्षेप्ता त्वामेवाहुः पुनर्धनम् । त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥ स्रष्टा त्वमेव लोकानां संहर्त्ता चापराजितः । त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥ त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः । १ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः । लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनिलोऽनलः ॥ इति मुद्रितविष्णुधर्मोत्तरे पाठः ।