वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 428, कुल 490 में से
संदर्भ में पढ़ें४३२ वीरमित्रोदयस्य राजनीतिप्रकाशे त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥ त्वमेव चामृतं देव त्वं मोक्षः परमार्चितः । त्वं मुहूर्त्तो निमेषस्त्वं लवस्त्वं वै पुनः क्षणः ॥ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा । संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ त्वमुत्तमा सगिरिवरा वसुन्धरा सभास्वरं वितिमिरमम्बरं तथा। महोदधिःसातिमितिमिंगिलस्तथा महोर्मिमानुरुमकरो झषाकुलः॥ महायशास्त्वमिह सदा प्रपूज्यसे महर्षिभिर्मुदितमना महाद्युते । महर्षिभिः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ त्वं विप्रैः सततामिहेज्यसे फलार्थं त्वं देवैरतुलबलौघ गीयसे त्वम्। त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्याधिगमयन्ति सर्ववेदैः॥ वज्रस्य भर्त्ता भुवनस्य गोप्ता वैश्वानरं वाहनमभ्युपैति । नमः सदाऽस्मै त्रिदशेश्वराय लोकत्रयेशाय पुरन्दराय ॥ अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥ त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीश ॥ कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम् । हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु ॥ त्रातारमिन्द्रेन्द्रियकारणात्मन् जगत्प्रधानं च हिरण्यगर्भम् । लोकेश्वरं देववरं वरेण्यमानन्दरूपं प्रणतोऽस्मि नित्यम् ॥ इमं स्तवं देववरस्य कीर्त्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः। १ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता । कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥ यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति । इति- मुद्रितविष्णुधर्मोत्तरे पाठः ।