वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 432, कुल 490 में से
संदर्भ में पढ़ें४३६ वीरमित्रोदयस्य राजनीतिप्रकाशे जघन्यो लङ्घयेत्तां तु राज्ञो मरणमादिशेत् । जघन्यो नरः, शूद्रचाण्डालादिः । जघन्यः पञ्चनखः,स्वादिः दुर्भिक्षं तत्र विज्ञेयं खरोष्ट्रैश्चैव लङ्घने । लङ्घयेद्वामपादेन यदि तां नृपकुञ्जरः ॥ राज्ञीपुरोहितामात्यराजपुत्राहितं भवेत् । राज्ञस्तु मरणं ब्रूयादाक्रमेत्तां यदाऽपरः ॥ राज्ञोऽपि जयमाचष्टे लङ्घयन् दक्षिणेन ताम् । राजहस्तिनि निष्क्रान्ते सा त्वपास्या तदा भवेत् ॥ निष्क्रामेयुस्ततः सर्वे प्राङ्मुखास्तोरणैर्गजाः । ततोऽश्वाः सुमहाभाग ततस्तु नरसत्तमाः ॥ ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च । आश्रमे तानि संस्थाप्य पूजयेदायुधानि च ॥ पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसराः कृताः । दूष्यांदूष्येतिमन्त्रेण निबध्नीयात्पुरोहितः ॥ सर्वेषां नृपनागानां तुरगाणां च भार्गव । स्वगृहेषु ततो नेयाः कुञ्जरास्तुरगैः सह ॥ स्वातिस्थः सविता यावत्तावच्छायासु संस्थितान् । पूजयेत्सततं राम नाक्रोशैनैव ताडयेत् ॥ राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा । पूजयेद्वरुणं नित्यं यथोक्तद्विधिना द्विज ॥ भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः । आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः ॥ वसेतामाश्रमे नित्यं सांवत्सरपुरोहितौ । १ तथाऽप्सु विधिवद्विज इति मुद्रितविष्णुधर्मोत्तरे पाठः ।