वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 433, कुल 490 में से
संदर्भ में पढ़ेंनीराजनशान्तिः । ४३७ अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः ॥ दीक्षितैस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च । स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते ॥ अलङ्कुर्याद्दिने तस्मिन् वाहनं च विशेषतः । पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ॥ हस्तिनं तुरगं छत्रं खड्गं चापं च दुन्दुभिम् । ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् ॥ अभिमन्त्र्य ततः सर्वान् कुर्यात्कुञ्जरधूर्गतान् । कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ॥ अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः । ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम् ॥ निष्क्रम्य तोरणैर्नागमभिमन्त्रितमारुहेत् । तोरणेन विनिष्क्रम्य कुर्यात्सुरविसर्जनम् ॥ बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः । रत्नेरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः ॥ उल्मुकानां च निचयमादीपितमनन्तरम् । राजा प्रदक्षिणं कुर्यात् त्रीन्वारान्सुसमाहितः ॥ चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः । क्ष्वेडाकिलकिलाशब्दैः सर्ववादित्रनिस्वनैः ॥ वल्गितैश्च पदातीनां हृष्टानां मनुजोत्तम । एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः ॥ जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत् । शान्तिर्नीराजनाख्येयं कर्त्तव्या वसुधाधिपैः ॥ क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम् । धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमा च ।